ऊर्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् । शत्रुघ्नो वै कीर्तिमतीं कुशध्वजसुते उभे ॥ १,१४३.
पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः । युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ ॥ १,१४३.
गतयोर्नृपवर्योऽसौ राज्यं दातुं समुद्यतः । स रामाय तत्पुत्राय कैकेय्या प्रार्थितस्तदा ॥ १,१४३.
चतुर्दशसमावासो वनेरामस्य वाञ्छितः । रामः पितृहितार्थञ्च लक्ष्मणेन च सीतया ॥ १,१४३.
राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः । रथं त्यक्त्वा प्रयागञ्च चित्रकूटगिरिं गतः ॥ १,१४३.
रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः । संस्कृत्य भरतश्चागाद्राममाह बलान्वितः ॥ १,१४३.
अयोध्यान्तु समागत्य राज्यं कुरु महामते । स नैच्छत्पादुके दत्त्वा राज्याय भरताय तु ॥ १,१४३.
विसर्जितोऽथ भरतो रामराज्यमपालयत् । नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥ १,१४३.
रामोऽपि चित्रकूटाच्च ह्यत्रेराश्रममाययौ । नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥ १,१४३.
तत्र शूर्पणखा नाम राक्षसी चात्तुमागता । निकृत्य कर्णो नासे च रामेणाथापवारिता ॥ १,१४३.
तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा । चतुर्दशसहस्रेण रक्षसान्तु बलेन च ॥ १,१४३.
रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च तान् । राक्षस्या प्रेरितोऽभ्यागाद्रावणो हरणाय हि ॥ १,१४३.
मृगरूपं स मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक् । सीतया प्रेरितो रामो मारीचं निजघान ह ॥ १,१४३.
म्रियमाणः स च प्राह हा सीते ! लक्ष्मणोति च । सीतोक्तो लक्ष्मणोऽथागाद्रामश्चानुददर्श तम् ॥ १,१४३.
उवाच राक्षसी माया नूनं सीता हृतेति सः । रावणोऽन्तरमासाद्य ह्यङ्केनादाय जानकीम् ॥ १,१४३.
जटायुषं विनिर्भिद्य ययौ लङ्कां ततो बली । अशोकवृक्षच्छायायां रक्षितां तामधारयत् ॥ १,१४३.
आगत्य रामः सून्याञ्च पर्णशालां ददर्श ह । शोकं कृत्वाथ जानक्या मार्गणं कृतवान्प्रभुः ॥ १,१४३.
जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् । गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥ १,१४३.
सप्त तालान्विनिर्भिद्य शरेणानतपर्वणा । वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥ १,१४३.
सुग्रीवं कृतवान्राम ऋश्यमूके स्वयं स्थितः । सुग्रीवः प्रेषयामास वानरान्पर्वतोपमान् ॥ १,१४३.
सीताया मार्गणं कर्तुं पूर्वाद्याशासु सोत्सवान् । प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥ १,१४३.
दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम् । वनानि पर्वतान्द्वीपान्नदीनां पुलिनानि च ॥ १,१४३.
जानकीन्ते ह्यपश्यन्तो मरणे कृतनिश्चयाः । सम्पातिवचनाज्ज्ञात्वा हनूमान्कपिकुञ्जरः ॥ १,१४३.
शतयोजनविस्तीर्णं पुप्लुवे मकरालयम् । अपश्यज्जानकीं तत्र ह्यशोकवनिकास्थिताम् ॥ १,१४३.
भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा । भव भार्येति वदता चिन्तयन्तीञ्च राघवम् ॥ १,१४३.
अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् । रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि ॥ १,१४३.
स्वाभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति । तच्छ्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते ॥ १,१४३.
यथा रामो नयेच्छीघ्रं तथा वाच्यं त्वया कपे । तथेत्युक्त्वा तु हनुमान्वनं दिव्यं बभञ्ज ह ॥ १,१४३.
हत्वाक्षं राक्षसांश्चान्यान्बन्धनं स्वयमागतः । सर्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥ १,१४३.
रामदूतोऽस्मि हनुमान्देहि रामाय मैथिलीम् । एतच्छ्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥ १,१४३.