आयुर्वेदमथाष्टाङ्गं सुश्रुताय स उक्तवान् । अमृतं पाययामास स्त्रीरूपी च सुरान्हरिः ॥ १,१४२.
अवतीर्णो वराहोऽथ हिरण्याक्षं जघान ह । पृथिवीं धारयामास पालयामास देवताः ॥ १,१४२.
नरसिंहोऽवर्तोर्णोऽथ हिरण्यकशिपुंरिपुम् । दैत्यान्निहतवान्वेदधर्मादीनभ्यपालयत् ॥ १,१४२.
ततः परशुरामोऽभूज्जमदग्नेर्जगत्प्रभुः । त्रिः सप्तकृत्वः पृथिवीं चक्रे निः क्षत्त्रियां हरिः ॥ १,१४२.
कार्तवीर्यं जघानाजौ कश्यपाय महीं ददौ । यागं कृत्वा महाबाहुर्महेन्द्रे पर्वते स्थितः ॥ १,१४२.
ततो रामो भविष्णुश्च चतुर्धा दुष्टर्मदनः । पुत्रो दशरथाज्जज्ञे रामश्च भरतोऽनुजः ॥ १,१४२.
लक्ष्मणश्चाथ शत्रुघ्नो रामभार्या च जानकी । रामश्च पितृसत्यार्थं मातृभ्यो हितमाचरन् ॥ १,१४२.
शृङ्गवेरं चित्रकूटं दण्डकारण्यमागतः । नासां शूर्पणखायाश्च च्छित्त्वाथ खरदूषणम् ॥ १,१४२.
हत्वा स राक्षसं सीतापहारिरजनीचरम् । रावणं चानुजं तस्य लङ्कापुर्यां विभीषणम् ॥ १,१४२.
रक्षोराज्ये च संस्थाप्य सुग्रीवनुमन्मुखैः । आरुह्य पुष्पकं सार्धं सीतया पतिभक्तया ॥ १,१४२.
लक्ष्मणेनानुकूलेन ह्ययोध्यां स्वपुरीं गतः । राज्यं चकार देवादीन्पालयामास स प्रजाः ॥ १,१४२.
धर्मसंरक्षणं चक्रे ह्यश्वमेधादिकान्क्रतून् । सा महीपतिना रेमे रामेणैव यथासुखम् ॥ १,१४२.
रावणस्य गृहे सीता स्थिता भेजे न रावणम् । कर्मणा मनसा वाचा सा गता राघवं सदा ॥ १,१४२.
पतिव्रता तु सा सीता ह्यनसूया यथैव तु । पतिव्रताया माहात्म्यं शृणु त्वं कथयाम्यहम् ॥ १,१४२.
कौशिको ब्राह्मणः कुष्ठी प्रतिष्ठानेऽभवत्पुरा । तं तथा व्याधितं भार्या पतिं देवमिवार्चयत् ॥ १,१४२.
निर्भर्त्सितापि भर्तारं तममन्यत दैवतम् । भर्त्रोक्ता सानयद्वेश्यां शुल्कमादाय चाधिकम् ॥ १,१४२.
पथि सूले तदा प्रोतमचौरं चौरशङ्कया । माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥ १,१४२.
पत्नीस्कन्धसमारूढश्चालयामास कौशिकः । पादावमर्शणत्क्रुद्धो माण्डव्यस्तमुवाच ह ॥ १,१४२.
सूर्योदये मृतिस्तस्य येनाहं चालितः पदा । तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति ॥ १,१४२.
ततः सूर्योदयाभावाद भवत्सततं निशा । बहून्यब्दप्रमाणानि ततो देवा भयं ययुः ॥ १,१४२.
ब्रह्माणं शरणं जग्मुस्तामूचे पद्मसम्भवः । प्रशाम्यते तेजसैव तपस्तेजस्त्वनेन वै ॥ १,१४२.
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः । तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥ १,१४२.
तस्मात्पतिव्रतामत्रेरनसूयां तपस्विनीम् । प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥ १,१४२.
तैः सा प्रसादिता गत्वा ह्यनसूया पतिव्रता । कृत्वादित्योदयं सा च तं भर्तारमजीवयत् । पतिव्रतानसूयायाः सीताभूदधिका किल ॥ १,१४२.
श्रीगरुडमहापुराणम् १४३ ब्रह्मोवाच । रामायणमतो वक्ष्ये श्रुतं पापविनाशनम् । विष्णुनाभ्यब्जतो ब्रह्मा मरीचिस्तत्सुतोऽभवत् ॥ १,१४३.
मरीचेः कश्यपस्तस्माद्रविस्तस्मान्मनुः स्मृतः । मनोरिक्ष्वाकुरस्याभूद्वंशे राजा रघुः स्मृतः ॥ १,१४३.
रघोरजस्ततो जातो राजा दशरथो बली । तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः ॥ १,१४३.
कौसल्यायाम भूद्रामो भरतः कैकयीसुतः । सुतौ लक्ष्मणशक्षुघ्नौ सुमित्रायां बभूवतुः ॥ १,१४३.
रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् । अस्त्रग्रामं ततो यक्षीं ताटकां प्रजघान ह ॥ १,१४३.
विशावमित्रस्य यज्ञे वै सुबाहुं न्यवधीद्बली । जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् ॥ १,१४३.