सुमतिः सुबलो नीतो सत्यजिद्विश्वजित्तथा । इषुञ्जयश्च इत्येते नृपा बार्हद्रथाः स्मृताः ॥ १,१४१.
अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः । स्वर्गादिकृद्धि भगवान्साक्षान्नारायणोऽव्ययः ॥ १,१४१.
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः । याति भूः प्रलयं चाप्सु ह्यापस्तेजसि पावकः ॥ १,१४१.
वायौ वायुश्च वियति त्वाकाशौ यात्यहङ्कृतौ । अहं बुद्धौ मतिर्जोवे जीवोऽव्यक्ते तदात्मनि ॥ १,१४१.
आत्मा परेश्वरो विष्णुरेको नारायणो नरः । अविनाश्यपरं सर्वं जगत्स्वर्गादि नाशि हि ॥ १,१४१.
नृपादयो गता नाशमतः पापं विवर्जयेत् । धर्मं कुर्यात्स्थिरं येन पापं हित्वा हरिं व्रजेत् ॥ १,१४१.
श्रीगरुडमहापुराणम् १४२ ब्रह्मोवाच । विंशादीन्पालयामास ह्यवतीर्णो हरिः प्रभुः । दैत्यधर्मस्य नाशार्थं वेदधर्मादिगुप्तये ॥ १,१४२.
मत्स्यादिकस्वरूपेण त्ववतारं करोत्यजः । मत्स्यो भूत्वा हयग्रीवं दैत्यं हत्वाजिकण्टकम् ॥ १,१४२.
वेदानानीय मन्वादीन्पालयामास केशवः । मन्दरं धारयामास कूर्मो भूत्वा हिताय च ॥ १,१४२.
क्षीरोदमथने वै द्यो देवो धन्वन्तरिर्ह्यर्भूत् । बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः ॥ १,१४२.
आयुर्वेदमथाष्टाङ्गं सुश्रुताय स उक्तवान् । अमृतं पाययामास स्त्रीरूपी च सुरान्हरिः ॥ १,१४२.
अवतीर्णो वराहोऽथ हिरण्याक्षं जघान ह । पृथिवीं धारयामास पालयामास देवताः ॥ १,१४२.
नरसिंहोऽवर्तोर्णोऽथ हिरण्यकशिपुंरिपुम् । दैत्यान्निहतवान्वेदधर्मादीनभ्यपालयत् ॥ १,१४२.
ततः परशुरामोऽभूज्जमदग्नेर्जगत्प्रभुः । त्रिः सप्तकृत्वः पृथिवीं चक्रे निः क्षत्त्रियां हरिः ॥ १,१४२.
कार्तवीर्यं जघानाजौ कश्यपाय महीं ददौ । यागं कृत्वा महाबाहुर्महेन्द्रे पर्वते स्थितः ॥ १,१४२.
ततो रामो भविष्णुश्च चतुर्धा दुष्टर्मदनः । पुत्रो दशरथाज्जज्ञे रामश्च भरतोऽनुजः ॥ १,१४२.
लक्ष्मणश्चाथ शत्रुघ्नो रामभार्या च जानकी । रामश्च पितृसत्यार्थं मातृभ्यो हितमाचरन् ॥ १,१४२.
शृङ्गवेरं चित्रकूटं दण्डकारण्यमागतः । नासां शूर्पणखायाश्च च्छित्त्वाथ खरदूषणम् ॥ १,१४२.
हत्वा स राक्षसं सीतापहारिरजनीचरम् । रावणं चानुजं तस्य लङ्कापुर्यां विभीषणम् ॥ १,१४२.
रक्षोराज्ये च संस्थाप्य सुग्रीवनुमन्मुखैः । आरुह्य पुष्पकं सार्धं सीतया पतिभक्तया ॥ १,१४२.
लक्ष्मणेनानुकूलेन ह्ययोध्यां स्वपुरीं गतः । राज्यं चकार देवादीन्पालयामास स प्रजाः ॥ १,१४२.
धर्मसंरक्षणं चक्रे ह्यश्वमेधादिकान्क्रतून् । सा महीपतिना रेमे रामेणैव यथासुखम् ॥ १,१४२.
रावणस्य गृहे सीता स्थिता भेजे न रावणम् । कर्मणा मनसा वाचा सा गता राघवं सदा ॥ १,१४२.
पतिव्रता तु सा सीता ह्यनसूया यथैव तु । पतिव्रताया माहात्म्यं शृणु त्वं कथयाम्यहम् ॥ १,१४२.
कौशिको ब्राह्मणः कुष्ठी प्रतिष्ठानेऽभवत्पुरा । तं तथा व्याधितं भार्या पतिं देवमिवार्चयत् ॥ १,१४२.
निर्भर्त्सितापि भर्तारं तममन्यत दैवतम् । भर्त्रोक्ता सानयद्वेश्यां शुल्कमादाय चाधिकम् ॥ १,१४२.
पथि सूले तदा प्रोतमचौरं चौरशङ्कया । माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥ १,१४२.
पत्नीस्कन्धसमारूढश्चालयामास कौशिकः । पादावमर्शणत्क्रुद्धो माण्डव्यस्तमुवाच ह ॥ १,१४२.
सूर्योदये मृतिस्तस्य येनाहं चालितः पदा । तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति ॥ १,१४२.
ततः सूर्योदयाभावाद भवत्सततं निशा । बहून्यब्दप्रमाणानि ततो देवा भयं ययुः ॥ १,१४२.