अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः । अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः ॥ १,१४०.
ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः । प्रतीपोऽभूद्दिलीपाच्च देवापिस्तु प्रतीपतः ॥ १,१४०.
शन्तनुश्चैव बाह्लीकस्त्रयस्ते भ्रातरो नृपाः । बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः ॥ १,१४०.
शलश्च शन्तनोर्भोष्मो गङ्गायां धार्मिको महान् । चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शन्तनोः ॥ १,१४०.
भार्ये विचित्रवीर्यस्य त्वम्बिकाम्बालिके तयोः । धृराष्ट्रं च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥ १,१४०.
व्यास उत्पादयामास गान्धागी धृतराष्ट्रतः । शतपुत्रं दुर्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥ १,१४०.
प्रतिबिन्ध्यः श्रुतसोमः श्रुतकीर्तिस्तथार्जुनात् । शतानीकः श्रुतकर्मा द्रौपद्यां पञ्च वै क्रमात् ॥ १,१४०.
यौधेयी च हिडिम्बा च कौशी चैव सुभद्रिका । विजया वै रेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ १,१४०.
देवको घचोत्कचश्च ह्यभिमन्युश्च सर्वगः । सुहोत्रो निरमित्रश्च परीक्षिदभिमन्युजः ॥ १,१४०.
जनमेजयोऽस्य ततो भविष्यांश्च नृपाञ्छृणु ॥ १,१४०.
श्रीगरुडमहापुराणम् १४१ हरिरुवाच । शतानीको ह्यश्वमेधदत्तश्चाप्यधिसोमकः । कृष्णोऽनिरुद्धश्चाप्युष्णस्ततश्चित्ररथो नृपः ॥ १,१४१.
शुचिद्रथो वृष्णिमांश्च सुपेणश्च सुनीथकः । नृचक्षुश्च मुखाबाणः मेधावी च नृपञ्जयः ॥ १,१४१.
पारिप्लवश्च मुनयो मेधावी च नृपञ्जयः । बृहद्रथो हरिस्तिग्मो शतानीकः सुदानकः ॥ १,१४१.
उदानोऽह्निनरश्चैव दण्डपाणिर्निमित्तकः । क्षेमकश्च ततः शूद्रः पिता पूर्वस्ततः सुतः ॥ १,१४१.
बृहद्बलास्तु कथयन्ते नृपोश्चैक्ष्वाकुवंशजाः । बृहद्बलादुरुक्षयो वत्सव्यूहस्ततः परः ॥ १,१४१.
वत्सव्यूहात्ततः सूर्यः सहदेवस्तदात्मजः । बृहदश्वो भानुरथः प्रतीच्यश्च प्रतीतकः । मनुदेवः सुनक्षत्रः किन्नरश्चान्तरिक्षकः ॥ १,१४१.
सुपर्णः कृतजिच्चैव बृहद्भ्राजश्च धार्मिकः । कृतञ्जयो धनञ्जयः संजयः शाक्य एव च ॥ १,१४१.
शुद्धोदनो बाहुलश्च सेनजित्क्षुद्रकस्तथा । सुमित्रः कुडवश्चातः सुमित्रान्मागधाञ्छणु ॥ १,१४१.
जरासन्धः सहदेवः सोमापिश्च श्रुतश्रवाः । अयुतायुर्निरमित्रः सुक्षत्रो बहुकर्मकः ॥ १,१४१.
श्रुतञ्जयः सेनजिच्च भूरिश्चैव शुचिस्तथा । क्षेम्यश्च सुव्रतो धर्मः श्मश्रुलो दृढसेनकः ॥ १,१४१.
सुमतिः सुबलो नीतो सत्यजिद्विश्वजित्तथा । इषुञ्जयश्च इत्येते नृपा बार्हद्रथाः स्मृताः ॥ १,१४१.
अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः । स्वर्गादिकृद्धि भगवान्साक्षान्नारायणोऽव्ययः ॥ १,१४१.
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः । याति भूः प्रलयं चाप्सु ह्यापस्तेजसि पावकः ॥ १,१४१.
वायौ वायुश्च वियति त्वाकाशौ यात्यहङ्कृतौ । अहं बुद्धौ मतिर्जोवे जीवोऽव्यक्ते तदात्मनि ॥ १,१४१.
आत्मा परेश्वरो विष्णुरेको नारायणो नरः । अविनाश्यपरं सर्वं जगत्स्वर्गादि नाशि हि ॥ १,१४१.
नृपादयो गता नाशमतः पापं विवर्जयेत् । धर्मं कुर्यात्स्थिरं येन पापं हित्वा हरिं व्रजेत् ॥ १,१४१.
श्रीगरुडमहापुराणम् १४२ ब्रह्मोवाच । विंशादीन्पालयामास ह्यवतीर्णो हरिः प्रभुः । दैत्यधर्मस्य नाशार्थं वेदधर्मादिगुप्तये ॥ १,१४२.
मत्स्यादिकस्वरूपेण त्ववतारं करोत्यजः । मत्स्यो भूत्वा हयग्रीवं दैत्यं हत्वाजिकण्टकम् ॥ १,१४२.
वेदानानीय मन्वादीन्पालयामास केशवः । मन्दरं धारयामास कूर्मो भूत्वा हिताय च ॥ १,१४२.
क्षीरोदमथने वै द्यो देवो धन्वन्तरिर्ह्यर्भूत् । बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः ॥ १,१४२.