कर्म्मकर्त्ता च कर्मैव क्रिया कार्य्यं तथैव च 15.
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः 15.
पशूनां च पतिः प्रायो वसूनां पतिरेव च 15.
वनस्पतीनां च पतिरनिलस्य पतिस्तथा 15.
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा 15.
नागानां पतिरर्कस्य दक्षस्य पतिरेव च 15.
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः 15.
सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा 15.
मुनीनां च पतिश्चैव सूर्य्यस्य पतिरुत्तमः 15.
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा 15.
सरितां च पतिश्चैव समुद्राणां पतिस्तथा 15.
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा 15.
महात्मा मंगलो मेयो मन्दरो मन्दरेश्वरः 15.
मालाधरो महादेवो महादेवेन पूजितः 15.
महावीर्य्यो महाप्राणो मार्कण्डेयर्षिवन्दितः 15.
मुनिस्तुतो मुनिर्मैत्रो महाना (रा) सो महाहनुः 15.
महावक्त्रो महात्मा च महाकायो महोदरः 15.
महागतिर्महाकीर्त्तिर्महारूपो महासुरः 15.
मखेज्यो मखरूपी च माननीयो मखेश्वरः 15.
मानवश्च मनुश्चैव मानवानां प्रियंकरः 15.
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः 15.
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा 15.
नानारसोज्जवलद्वक्त्रो नानापुष्पोपशोभितः 15.
रत्नदो रत्नहर्त्ता च रूपी रूपविवर्जितः 15.
नीलमेघनिभः शुद्धः कालमेघनिभस्तथा 15.44 विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च 15.
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ 15.
सुवर्णस्य प्रदाता च सुवर्णांशस्तथैव च 15.
सुपर्णी च महापर्णी सुपर्णस्य च कारणम् 15.
कारणं महतश्चैव प्रधानस्य च कारणम् 15.
कारणं चैतसश्चैव अहंकारस्य कारणम् 15.