दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान् 2.
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् 2.
पुराणं गारुडं सारं रुद्रं च मां यथा 2.
कथं रुद्रं सुरैः सार्द्धमब्रवीद्वै हरिः पुरा 2.
अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह 2.
पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर ? 2.
सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह रुद्र उवाच 2.12 सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम् 2.
विष्णोराराधनार्थं मे व्रतचर्य्या पितामह 2.
विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम् 2.
युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम् 2.
गुणभूतानि भूतेशे सूत्रे मणिगणा इव 2.17 अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् 2.
यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च 2.
पुराणपुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु 2.
यस्मिंल्लोकाः स्फुरन्तीमे जलेषु शकुन्यो यथा 2.
अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः 2.
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् 2.
यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम् 2.
कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् 2.
अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् 2.
मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् 2.
मूर्द्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् 2.
वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम् 2.
इत्युक्तोऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम् 2.
अस्माकं मध्यतो रुद्र उवाच परमेश्वरम् 2.
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः 2.
हरे कथय देवेश ! देवदेवः क ईश्वरः 2.
कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया 2.
कस्माद्देवाज्जगज्जातं जगत्पालयते च कः 2.
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च 2.
एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन 2.