पारस्तु पृथुसेनस्य पाराद्द्वीपोऽभवन्नृपः । नृपस्य सृमरः पुत्रः सुकृतिश्च पृथोः सुतः ॥ १,१४०.
विभ्राजः सुकृतेः पुत्रो विभ्राजादश्वहोऽभवत् । कृत्यां तस्माद्ब्रह्मदत्तो विष्वक्सेनस्तदात्मजः ॥ १,१४०.
यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात् । धतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः ॥ १,१४०.
दृढनेमेः सुपार्श्वोऽभूत्सुपार्श्वात्सन्नतिस्तथा । कृस्तु सन्नतेः पुत्रः कृतादुग्रायुधोऽभवत् ॥ १,१४०.
उग्रायुधाच्च क्षेम्यौऽभूत्सुधीरस्तु तदात्मजः । पुरञ्जयः सुधीराच्च तस्य पुत्रो विदूरथः ॥ १,१४०.
अजमीढान्नलिन्याञ्च नीलो नाम नृपोऽभवत् । नीलाच्छान्तिरभूत्पुत्रः सुशान्तिस्तस्य चात्मजः ॥ १,१४०.
सुशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतोऽभवत् । अर्कस्य चैव हर्यश्वो हर्यश्वान्मुकुलोऽभवत् ॥ १,१४०.
यवीनरो बृहद्भानुः कम्पिल्लः सृञ्जयस्तथा । पाञ्चालान्मुकुलाज्जज्ञे शरद्वान्वैष्णवो महान् ॥ १,१४०.
दिवोदासो द्वितीयोऽस्य ह्यहल्यायां शरद्वतः । शतानन्दोऽभवत्पुत्रस्तस्य सत्यधृतिः सतः ॥ १,१४०.
कृपः कृपी सत्यधृतेरुर्वश्यां वीर्यहानितः । द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम् ॥ १,१४०.
दिवोदासान्मित्रयुश्च मित्रयोश्च्यवनोऽभवत् । सुदासश्च्यवनाज्जज्ञे सौदासस्तस्य जात्मजः ॥ १,१४०.
सहदेवस्तस्य पुत्रः सहदेवात्तु सोमकः । जन्तुस्तु सोमकाज्जज्ञे पृषतश्चापरो महान् ॥ १,१४०.
पृषताद्द्रुपदो जज्ञे धृष्टद्युम्नस्ततोऽभवत् । धृष्टद्युम्नाद्धृष्टकेतुरृक्षोऽभूतजमीढतः ॥ १,१४०.
ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत् । सुधनुश्च पीक्षिच्च जह्नुश्चैव कुरोः सुताः ॥ १,१४०.
सुधनुषः सुहोत्रोऽभूच्च्यवनोऽभूत्सुहोत्रतः । च्यवनात्कृतको जज्ञे तथोपरिचरो वसुः ॥ १,१४०.
बृहद्रथश्च प्रत्यग्रः सत्याद्याश्च वसोः सुताः । बृहद्रथात्कुशाग्रश्च कुशाग्रादृषभोऽभवत् ॥ १,१४०.
ऋषभात्पुष्पवांस्तस्माज्जज्ञे सत्यहितो नृपः । सत्यहितात्सुधन्वाभूज्जह्रुश्चव सुधन्वनः ॥ १,१४०.
बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः । सहदेवाच्च च सोमापिः सोमापेः श्रुतवान्सुतः ॥ १,१४०.
भीमसेनोग्रसेनौ च श्रुतसेनोऽपराजितः । जनमेजयस्तथान्योऽभूज्जह्नोस्तु सुरथोऽभवत् ॥ १,१४०.
विदूरथस्तु सुरथात्सार्वभौमो विदूरथात् । जयसेनः सार्वभौमादावधीतस्तदात्मजः ॥ १,१४०.
अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः । अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः ॥ १,१४०.
ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः । प्रतीपोऽभूद्दिलीपाच्च देवापिस्तु प्रतीपतः ॥ १,१४०.
शन्तनुश्चैव बाह्लीकस्त्रयस्ते भ्रातरो नृपाः । बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः ॥ १,१४०.
शलश्च शन्तनोर्भोष्मो गङ्गायां धार्मिको महान् । चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शन्तनोः ॥ १,१४०.
भार्ये विचित्रवीर्यस्य त्वम्बिकाम्बालिके तयोः । धृराष्ट्रं च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥ १,१४०.
व्यास उत्पादयामास गान्धागी धृतराष्ट्रतः । शतपुत्रं दुर्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥ १,१४०.
प्रतिबिन्ध्यः श्रुतसोमः श्रुतकीर्तिस्तथार्जुनात् । शतानीकः श्रुतकर्मा द्रौपद्यां पञ्च वै क्रमात् ॥ १,१४०.
यौधेयी च हिडिम्बा च कौशी चैव सुभद्रिका । विजया वै रेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ १,१४०.
देवको घचोत्कचश्च ह्यभिमन्युश्च सर्वगः । सुहोत्रो निरमित्रश्च परीक्षिदभिमन्युजः ॥ १,१४०.
जनमेजयोऽस्य ततो भविष्यांश्च नृपाञ्छृणु ॥ १,१४०.