महामना महाशालदुशीनर इह स्मृतः । अशीनराच्छिबिर्जज्ञे वृषदर्भः शिवेः सुतः ॥ १,१३९.
महामनोजात्तितिक्षोः पुत्रोऽभूच्च रुषद्रथः । हेमो रुषद्रथाज्जज्ञे सुतपा हेमतोऽभवत् ॥ १,१३९.
बलिः सुतपसो जज्ञे ह्यङ्गवङ्गकलिङ्गकाः । अन्धः पैण्ड्रश्च बालेया ह्यनपानस्तथाङ्गतः ॥ १,१३९.
अनपानाद्दिविरथस्ततो धर्मरथोऽभवत् । रोमपादो धर्मरथाच्चतुरङ्गस्तदात्मजः ॥ १,१३९.
पृथुलाक्षस्तस्य पुत्रश्चम्पोऽभूत्पृथुलाक्षतः । चम्पपुत्रश्च हर्यङ्गस्तस्य भद्ररथः सुतः ॥ १,१३९.
बृहत्कर्मा सुतस्तस्य बृहद्भानुस्ततोऽभवत् । बुहन्मना बृहाद्भानोस्तस्य पुत्रो जयद्रथः ॥ १,१३९.
जयज्रथस्य विजयो विजयस्य धृतिः सुतः । धृतेर्धृव्रतः पुत्रः सत्यधर्मा धृतव्रतात् ॥ १,१३९.
तस्य पुत्रस्त्वधिरथः कर्णस्तस्य सुतोऽभवत् ॥ १,१३९.
वृर्षसेनस्तु कर्णस्य पुरुवंश्याञ्छणुष्व मे ॥ १,१३९.
श्रीगरुडमहापुराणम् १४० हरिरुवाच । जनमेजयः पुरोश्चाभून्नमस्युर्जनमेजयात् । तस्य पुत्रश्चाभयदः सुद्युश्चाभयदादभूत् ॥ १,१४०.
सुद्योर्बहुगतिः पुत्रः संजातिस्तस्य चात्मजः । वत्सजातिश्च सञ्जातेः रौद्राश्वश्च तदात्मजः ॥ १,१४०.
ऋतेयुः स्थण्डिलेयुश्च कक्षेयुश्च कृतेयुकः । जलेयुः सन्ततेयुश्च रोद्राश्वस्य सुता वराः ॥ १,१४०.
रतिनार ऋतेयोश्च तस्य प्रतिरथः सुतः । तस्य मेधातिथिः पुत्रस्तत्पुत्रश्चैनिलः स्मृतः ॥ १,१४०.
ऐनिलस्य तु दुष्यन्तो भरतस्तस्य चात्मजः । शकुन्तलायां संजज्ञे वितथो भरतादभूत् ॥ १,१४०.
वितथस्य सुतो मन्युर्मन्योश्चैव नरः स्मृतः । नरस्य संकृतिः पुत्रो गर्गो वै संकृतेः सुतः ॥ १,१४०.
गर्गादमन्युः पुत्रो वै शिनिः पुत्रो व्यजायत । मन्युपुत्रान्महावीर्यात्सुतोऽभवदुरुक्षयः ॥ १,१४०.
उरुक्षयात्त्रय्यारुणिर्व्यूहक्षत्राच्च मन्युजात् । सुहोत्रस्तस्य हस्ती च अजमीढद्विमीढकौ ॥ १,१४०.
हस्तिनः पुरुमीढश्च कण्वोऽभूदजमीढतः । कण्वान्मेधातिथिर्जज्ञे यतः काण्वायना द्विजाः ॥ १,१४०.
अजमीढाद्वृहदिषुस्तत्पुत्रश्च बृहद्धनुः । बृहत्कर्मा तस्य पुत्रस्तस्य पुत्रो जयद्रथः ॥ १,१४०.
जयद्रथाद्विश्वजिच्च सेनजिच्च तदात्मजः । रुचिराश्वः सेनजितः पृथुसेनस्तदात्मजः ॥ १,१४०.
पारस्तु पृथुसेनस्य पाराद्द्वीपोऽभवन्नृपः । नृपस्य सृमरः पुत्रः सुकृतिश्च पृथोः सुतः ॥ १,१४०.
विभ्राजः सुकृतेः पुत्रो विभ्राजादश्वहोऽभवत् । कृत्यां तस्माद्ब्रह्मदत्तो विष्वक्सेनस्तदात्मजः ॥ १,१४०.
यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात् । धतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः ॥ १,१४०.
दृढनेमेः सुपार्श्वोऽभूत्सुपार्श्वात्सन्नतिस्तथा । कृस्तु सन्नतेः पुत्रः कृतादुग्रायुधोऽभवत् ॥ १,१४०.
उग्रायुधाच्च क्षेम्यौऽभूत्सुधीरस्तु तदात्मजः । पुरञ्जयः सुधीराच्च तस्य पुत्रो विदूरथः ॥ १,१४०.
अजमीढान्नलिन्याञ्च नीलो नाम नृपोऽभवत् । नीलाच्छान्तिरभूत्पुत्रः सुशान्तिस्तस्य चात्मजः ॥ १,१४०.
सुशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतोऽभवत् । अर्कस्य चैव हर्यश्वो हर्यश्वान्मुकुलोऽभवत् ॥ १,१४०.
यवीनरो बृहद्भानुः कम्पिल्लः सृञ्जयस्तथा । पाञ्चालान्मुकुलाज्जज्ञे शरद्वान्वैष्णवो महान् ॥ १,१४०.
दिवोदासो द्वितीयोऽस्य ह्यहल्यायां शरद्वतः । शतानन्दोऽभवत्पुत्रस्तस्य सत्यधृतिः सतः ॥ १,१४०.
कृपः कृपी सत्यधृतेरुर्वश्यां वीर्यहानितः । द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम् ॥ १,१४०.