स्वधाजित्संज्ञकस्तस्मादनमित्राशिनी तथा । अनमित्रस्य निघ्नोऽभून्निघ्नाच्छत्राजितोऽभवत् ॥ १,१३९.
प्रसेनश्चापरः ख्यातो ह्यनमित्राच्छिबिस्तथा । शिबेस्तु सत्यकः पुत्रः सत्यकात्सात्यकिस्तथा ॥ १,१३९.
सात्यकेः सञ्जयः पुत्रः कुलिश्चैव तदात्मजः । कुलेर्युगन्धरः पुत्रस्ते शैबेयाः प्रकीर्तिताः ॥ १,१३९.
अनमित्रान्वये वृष्णिः श्वफल्कश्चित्रकः सुतः । श्वफल्काच्चैवगान्दिन्यामक्रूरो वैष्णवोऽभवत् ॥ १,१३९.
उपमद्गुरथाक्रूराद्देवद्योतस्ततः सुतः । देववानुपदेवश्च ह्यक्रूरस्य सुतौ स्मृतौ ॥ १,१३९.
पृथुर्विपृथुश्चित्रस्य त्वन्धकस्य शुचिः स्मृतः । कुकुरो भजमानस्य तथा कम्बलबर्हिषः ॥ १,१३९.
धृष्टस्तु कुकुराज्जज्ञे तस्मात्कापोतरोमकः । तदात्मजो विलोमा च विलोम्नस्तुम्बुरुः सुतः ॥ १,१३९.
तस्माच्चदुन्दुभिर्जज्ञे पुनर्वसुरतः स्मृतः । तस्याहुकश्चाहुकी च कन्या चैवाहुकस्य तु ॥ १,१३९.
देवकश्चोग्रसेनश्च देवकाद्देवकी त्वभूत् । वृकदेवोपदेवाच सहदेवा सुरक्षिता ॥ १,१३९.
श्रीदेवी शान्तिदेवी च वसुदेव उवाह ताः । देववानुपदेवश्च सहदेवासुतौ स्मृतौ ॥ १,१३९.
उग्रसेनस्य कंसोऽभूत्सुनामा च वटादयः । विदूरथो भजमानाच्छूरश्चाभूद्विदूरथात् ॥ १,१३९.
विदूरथसुतस्याथ सूरस्यापि शमी सुतः । प्रतिक्षत्त्रश्च शमिनः स्वयम्भोजस्तदात्मजः ॥ १,१३९.
हृदिकश्च स्वयम्भोजात्कृतवर्मा तदात्मजः । देवः शतधनुश्चैव शूराद्वै देवमीढुषः ॥ १,१३९.
दश पुत्रा मारिषायां वसुदेवादयोऽभवन् । पृथा च श्रुतदेवी च श्रुतकीर्तिः श्रुतश्रवाः ॥ १,१३९.
राजाधिदेवो शूराच्च पृथां कुन्तेः सुतामदात् । सा दत्ता कुन्तिना पाण्डोस्तस्यां धर्मानिलेन्द्रकैः ॥ १,१३९.
युधिष्ठिरो भीमपार्थो नकुलः सहदेवकः । माद्रयां नासत्यदस्त्राभ्यां कुन्त्यां कर्णः पुराभवत् ॥ १,१३९.
श्रुतदेव्यां दन्तवक्रो जज्ञे वै युद्धदुर्मदः । सन्तर्दनादयः पञ्च श्रुतकीर्त्याञ्च कैकयात् ॥ १,१३९.
राजाधिदेव्यां जज्ञाते विन्दश्चैवानुविन्दकः । श्रुतश्रवा दमघोषात्प्रजज्ञे शिशुपालकम् ॥ १,१३९.
पौरवी रोहीणा भार्या मदिरानकदुन्दुभेः । देवकीप्रमुखा भद्रा रोहिण्यां बलभद्रकः ॥ १,१३९.
सारणाद्याः शठश्चैव रेवत्यां बलभद्रतः । निशठश्चोल्मुको जातो देवक्यां षट्च जज्ञिरे ॥ १,१३९.
कीर्तिमांश्च सुषेणश्च ह्युदार्यो भद्रसेनकः । ऋजुदासो भद्रदेवः कंस एवावधीच्च तान् ॥ १,१३९.
संकर्षणः सप्तमोऽभूदष्टमः कृष्ण एव च । षोडशस्त्रीसहस्राणि भार्याणाञ्चाभवन्हरेः ॥ १,१३९.
रुक्मिणी सत्यभामा च लक्ष्मणा चारुहासिनी । श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरे ताः सुतान्बहून् ॥ १,१३९.
प्रद्युम्नश्चारुदेष्णश्च प्रधानाः साम्ब एव च । प्रद्युम्नादनिरुद्धोऽभूत्ककुद्मिन्यां महाबलः ॥ १,१३९.
अनिरुद्धात्सुभद्रायां वज्रो नाम नृपोऽभवत् । प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥ १,१३९.
वह्निस्तु तुर्वसोर्वंशे वह्नेर्भर्गोऽभवत्सुतः । भर्गाद्भानुरभूत्पुत्रो भानोः पुत्रः करन्धमः ॥ १,१३९.
करन्धमस्य मरुतो द्रुह्योर्वंशं निबोध मे । द्रह्योस्तु तनयः सेतुरारद्धश्च तदात्मजः ॥ १,१३९.
आरद्धस्यैव गान्ध रो घर्मो गान्धारतोऽभवत् । घृतस्तु घर्मपुत्रोऽभूद्दुर्गमश्च घृस्य तु ॥ १,१३९.
प्रचेता दुर्गमस्यैव अनोर्वंशं शृणुष्व मे । अनोः सभानरः पुत्रस्तस्मा कालञ्जयोऽभवत् ॥ १,१३९.
कालञ्जयात्सृञ्जयोऽभूत्सृञ्जयात्तु पुरुञ्जयः । जनमेजयस्तु तत्पुत्रो महाशालस्तदात्मजः ॥ १,१३९.