गृत्समदाच्छौन कोऽभूत्काश्याद्दीर्घतमास्तथा । वैद्यो धन्वन्तरिस्तस्मात्केतुमांश्च तदात्मजः ॥ १,१३९.
भीमरथः केतुमतो दिवोदासस्तदात्मजः । दिवोदासात्प्रतर्दनः शत्रुजित्सोऽत्र विश्रुतः ॥ १,१३९.
ऋतध्वजस्तस्य पुत्रो ह्यलर्कश्च ऋतध्वजात् । अलर्कात्सन्नतिर्जज्ञे सुनीतः सन्नतेः सुतः ॥ १,१३९.
सत्यकेतुः सुनीतस्य सत्यकेतोर्विभुः सुतः । विभोस्तु सुविभुः पुत्रः सुविभोः सुकुमारकः ॥ १,१३९.
सुकुमाराद्धृष्टकेतुर्वोतिहोत्रस्तदात्मजः । वीतिहोत्रस्य भर्गोऽभूद्भर्गभूमिस्तदात्मजः ॥ १,१३९.
वैष्णवाः स्युर्महात्मान इत्येते काशयो नृपाः । पञ्चपुत्रशतान्यासन्रजेः शक्रेण संहृताः ॥ १,१३९.
प्रतिक्षत्त्रः क्षत्त्रवृद्धात्संजयश्च त दात्मजः । विजयः संजयस्यापि विजयस्य कृतः सुतः ॥ १,१३९.
कृताद्वृषधनश्चाभूत्सहदेवस्तदात्मजः । सहदेवाददीनोऽभूज्जयत्सेनोऽप्यदीनतः ॥ १,१३९.
जयत्सेनात्संकृतिश्च क्षत्त्रधर्मा च संकृतेः । यतिर्ययातिः संयातिरयातिर्विकृतिः क्रमात् ॥ १,१३९.
नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा । यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १,१३९.
द्रुह्युं चानुं च पूरुञ्च शर्मिष्ठा वार्षपार्वणी । सहस्रजीत्क्रोष्टुमना रघुश्चैव यदोः सुताः ॥ १,१३९.
सहस्रजितः शतजित्तस्माद्वै हयहैहयौ । अनरण्यो हयात्पुत्रो धर्मो हैहयतोऽभवत् ॥ १,१३९.
धर्मस्य धर्मनेत्रोऽबूत्कुन्तिर्वै धर्मनेत्रतः । कुन्तेर्बभूत साहञ्जिर्महिष्मांश्च तदात्मजः ॥ १,१३९.
भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेणयस्य दुर्दमः । धनको दुर्दमाच्चैव कृतवीर्यश्च जानकिः ॥ १,१३९.
कृताग्निः कृतकर्मा च कृतौजाः सुमहाबलः । कृतवीर्यादर्जुनोऽभूदर्जुनाच्छूरसेनकः ॥ १,१३९.
जयध्वजो मधुः शूरो वृषणः पञ्च सव्रताः । जयध्वजात्तालजङ्घो भरतस्तालजङ्गतः ॥ १,१३९.
वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः । क्रोष्टोर्विजज्ञिवान्पुत्त्र आहिस्तस्य महात्मनः ॥ १,१३९.
आहेरुशङ्कुः संजज्ञेतस्य चित्ररथः सतः । शशबिन्दुश्चित्ररथात्पत्न्यो लक्षञ्च तस्य ह ॥ १,१३९.
दशलक्षञ्च पुत्राणां पृथुकीर्त्यादयो वराः । पृथुकीर्तिः पृथुजयः पृथुदानः पृथुश्रवाः ॥ १,१३९.
पृथुश्रवसोऽभूत्तम उशनास्तमसोऽभवत् । तत्पुत्रः शितगुर्नाम श्रीरुक्मकवचस्ततः ॥ १,१३९.
रुक्मश्च पृथुरुक्मश्च ज्यामघः पालितो हरिः । श्रीरुक्मकवचस्यैते विदर्भो ज्यामघात्तथा ॥ १,१३९.
भार्यायाञ्चैव शैब्यायां विदर्भात्क्रथकौशिकौ । रोमपादो रोमपादाद्बभ्रुर्बभ्रोर्धृतिस्तथा ॥ १,१३९.
कौशिकस्य ऋचिः पुत्रः ततश्चैद्यो नृपः किल । कुन्तिः किलास्य पुत्रोऽभूत्कुन्तेर्वृष्णिः सुतः स्मृतः ॥ १,१३९.
वृष्णेश्च निवृतिः पुत्रो दशार्हे निवृतेस्तथा । दशार्हस्य सुतो व्योमा जीमूतश्च तदात्मजः ॥ १,१३९.
जीमूताद्विकृतिर्जज्ञे ततो भीमरथोऽभवत् । ततो मधुरथो जज्ञे शकुनिस्तस्य चात्मजः ॥ १,१३९.
करम्भिः शकुनेः पुत्रस्तस्य वै देववान्स्मृतः । देवक्षत्त्रो देवनतो देवक्षत्त्रान्मधुः स्मृतः ॥ १,१३९.
कुरुवंशो मधोः पुत्रो ह्यनुश्च कुरुवंशतः । पुरुहोत्रो ह्यनोः पुत्रो ह्यंशुश्च पुरुहोत्रतः ॥ १,१३९.
सत्त्वश्रुतः सुतश्चांशोस्ततो वै सात्त्वतो नृपः । भजिनो भजमानश्च सात्वतादन्धकः सुतः ॥ १,१३९.
महाभोजो वृष्णि दिव्यावन्यो देवावृधोऽभवत् । निमिवृष्णी भजमानादयुताजित्तथैव च ॥ १,१३९.
शतजिच्च सहस्राजिद्बभ्रुर्देवो बृहस्पतिः । महाभोजात्तु भोजोऽभूत्तद्वृष्णेश्च सुमित्रकः ॥ १,१३९.