जनकस्य द्वये वंशे उक्तो योगसमाश्रयः ॥ १,१३८.
श्रीगरुडमहापुराणम् १३९ हरिरुवाच । सूर्यस्य कथितो वंशः सोमवंशं शृणुष्व मे । नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रेः समुद्भवः ॥ १,१३९.
अत्रेः सोमस्तस्य भार्या तारा सुरगुरोः प्रिया । सोमात्तरा बुधं जज्ञे बुधपुत्रः पुरूरवाः ॥ १,१३९.
बुधपुत्रादथोर्वश्यां षट्पुत्रास्तु श्रुतात्मकः । विश्वावसुः शतायुश्च आयुर्धोमानमावसुः ॥ १,१३९.
अमावसोर्भोमनामा भीमपुत्रश्च काञ्चनः । काञ्चनस्य सुहोत्रोऽभूज्जह्रुश्चाभूत्सुहोत्रतः ॥ १,१३९.
जह्नोः सुमन्तुरभवत्सुमन्तोरपजापकः । बलाकाश्वस्तस्य पुत्रो बलाकाश्वात्कुशः स्मृतः ॥ १,१३९.
कुशाश्वः कुशनाभश्चामूर्तरयो वसुः कुशात् । गाधिः कुशाश्वात्संजज्ञे विश्वामित्रस्तदात्मजः ॥ १,१३९.
कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा । ऋचीकाज्जमदाग्निश्च रामस्तस्याभवत्सुतः ॥ १,१३९.
विश्वामित्राद्देवरातमदुच्छन्दादयः सुताः । आयुषो नहुषस्तस्मादनेना रजिरम्भकौ ॥ १,१३९.
क्षत्त्रवृद्धः क्षत्त्रवृद्धात्सुहोत्रश्चाभवन्नृपः । काश्यकाशौगृत्समदः सुहोत्रादभवंस्त्रयः ॥ १,१३९.
गृत्समदाच्छौन कोऽभूत्काश्याद्दीर्घतमास्तथा । वैद्यो धन्वन्तरिस्तस्मात्केतुमांश्च तदात्मजः ॥ १,१३९.
भीमरथः केतुमतो दिवोदासस्तदात्मजः । दिवोदासात्प्रतर्दनः शत्रुजित्सोऽत्र विश्रुतः ॥ १,१३९.
ऋतध्वजस्तस्य पुत्रो ह्यलर्कश्च ऋतध्वजात् । अलर्कात्सन्नतिर्जज्ञे सुनीतः सन्नतेः सुतः ॥ १,१३९.
सत्यकेतुः सुनीतस्य सत्यकेतोर्विभुः सुतः । विभोस्तु सुविभुः पुत्रः सुविभोः सुकुमारकः ॥ १,१३९.
सुकुमाराद्धृष्टकेतुर्वोतिहोत्रस्तदात्मजः । वीतिहोत्रस्य भर्गोऽभूद्भर्गभूमिस्तदात्मजः ॥ १,१३९.
वैष्णवाः स्युर्महात्मान इत्येते काशयो नृपाः । पञ्चपुत्रशतान्यासन्रजेः शक्रेण संहृताः ॥ १,१३९.
प्रतिक्षत्त्रः क्षत्त्रवृद्धात्संजयश्च त दात्मजः । विजयः संजयस्यापि विजयस्य कृतः सुतः ॥ १,१३९.
कृताद्वृषधनश्चाभूत्सहदेवस्तदात्मजः । सहदेवाददीनोऽभूज्जयत्सेनोऽप्यदीनतः ॥ १,१३९.
जयत्सेनात्संकृतिश्च क्षत्त्रधर्मा च संकृतेः । यतिर्ययातिः संयातिरयातिर्विकृतिः क्रमात् ॥ १,१३९.
नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा । यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १,१३९.
द्रुह्युं चानुं च पूरुञ्च शर्मिष्ठा वार्षपार्वणी । सहस्रजीत्क्रोष्टुमना रघुश्चैव यदोः सुताः ॥ १,१३९.
सहस्रजितः शतजित्तस्माद्वै हयहैहयौ । अनरण्यो हयात्पुत्रो धर्मो हैहयतोऽभवत् ॥ १,१३९.
धर्मस्य धर्मनेत्रोऽबूत्कुन्तिर्वै धर्मनेत्रतः । कुन्तेर्बभूत साहञ्जिर्महिष्मांश्च तदात्मजः ॥ १,१३९.
भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेणयस्य दुर्दमः । धनको दुर्दमाच्चैव कृतवीर्यश्च जानकिः ॥ १,१३९.
कृताग्निः कृतकर्मा च कृतौजाः सुमहाबलः । कृतवीर्यादर्जुनोऽभूदर्जुनाच्छूरसेनकः ॥ १,१३९.
जयध्वजो मधुः शूरो वृषणः पञ्च सव्रताः । जयध्वजात्तालजङ्घो भरतस्तालजङ्गतः ॥ १,१३९.
वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः । क्रोष्टोर्विजज्ञिवान्पुत्त्र आहिस्तस्य महात्मनः ॥ १,१३९.
आहेरुशङ्कुः संजज्ञेतस्य चित्ररथः सतः । शशबिन्दुश्चित्ररथात्पत्न्यो लक्षञ्च तस्य ह ॥ १,१३९.
दशलक्षञ्च पुत्राणां पृथुकीर्त्यादयो वराः । पृथुकीर्तिः पृथुजयः पृथुदानः पृथुश्रवाः ॥ १,१३९.
पृथुश्रवसोऽभूत्तम उशनास्तमसोऽभवत् । तत्पुत्रः शितगुर्नाम श्रीरुक्मकवचस्ततः ॥ १,१३९.