सुबाहुशूरसेनौ च शत्रुघ्नात्संबभूवतुः । कुशस्य चातिथिः पुत्रो निषधो ह्यतिथेः सुतः ॥ १,१३८.
निषधस्य नलः पुत्रो नलस्य च नभाः स्मृतः । नभसः पुण्डरीकस्तुक्षेमधन्वा तदात्मजः ॥ १,१३८.
देवानीकस्तस्य पुत्रो देवानीकादहीनकः । अहीनकाद्रुरुर्यज्ञे पारियात्रो रुरोः सुतः ॥ १,१३८.
पारियात्राद्दलो यज्ञे दल पुत्रश्छलः स्मृतः । छलादुक्थस्ततो ह्युक्थाद्वज्रनाभस्ततो गणः ॥ १,१३८.
उषिताश्वो गणाज्जज्ञे ततो विश्वसहोऽभवत् । हिरण्यनाभस्तत्पुत्रस्तत्पुत्रः पुष्पकः स्मृतः ॥ १,१३८.
ध्रुवसन्धिरभूत्पुष्पाद्ध्रुवसन्धेः सुदर्शनः । सुदर्शनादग्निवर्णः पद्मवणोऽग्निवर्णतः ॥ १,१३८.
शीघ्रस्तु पद्मवर्णात्तु शीघ्रात्पुत्रो मरुस्त्वभूत् । मरोः प्रसुश्रुतः पुत्रस्तस्य चोदावसुः सुतः ॥ १,१३८.
उदावसोर्नन्दिवर्धनः सुकेतुर्नन्दिवर्धनात् । सुकेतोर्देवरातोऽभूद्वृहदुक्थस्ततः सुतः ॥ १,१३८.
बृहदुक्थान्महावीर्यः सुधृतिस्तस्य चात्मजः । सुधृतेर्धृष्टकेतुश्च हर्यश्वो धृष्टकेतुतः ॥ १,१३८.
हर्यश्वात्तु मरुर्जातो मरोः प्रतीन्धकोऽभवत् । प्रतीन्धकात्कृतिरथो देवमीढस्तदात्मजः ॥ १,१३८.
विबुधो देवमीढात्तु विबुधात्तु महाधृतिः । महाधृतेः कीर्तिरातो महारोमा तदात्मजः ॥ १,१३८.
महारोम्णः स्वर्णरोमा ह्रस्वरोमा तदात्मजः । सीरध्वजो ह्रस्वरोम्णः तस्य सीताभवत्सुता ॥ १,१३८.
भ्राता कुशध्वजस्तस्य सीरध्वजात्तु भानुमान् । शतद्युम्नो भानुमतः शतद्युम्नाच्छुचिः स्मृतः ॥ १,१३८.
ऊर्जनामा शुचेः पुत्रः सनद्वाजस्तदात्मजः । सनद्वाजात्कुलिर्जातोऽनञ्जनस्तु कुलेः सुतः ॥ १,१३८.
अनञ्जनाच्च कुलजित्तस्यापि चाधिनेमिकः । श्रुतायुस्तस्य पुत्रोऽभूत्सुपार्श्वश्च तदात्मजः ॥ १,१३८.
सुपार्श्वात्सृंजयो जातः क्षेमारिः सृजयात्समृतः । क्षेमारि तस्त्वनेनाश्च तस्य रामरथः स्मृतः ॥ १,१३८.
सत्यरथो रामरथात्तस्मादुपगुरुः स्मृतः । उपगुरोरुपगुप्तः स्वागतश्चोपगुप्ततः ॥ १,१३८.
स्वनरः स्वागताज्जज्ञे सुवर्चास्तस्य चात्मजः । सुवर्चसः सुपार्श्वस्तु सुश्रुतश्च सुपार्श्वतः ॥ १,१३८.
जयस्तु सुश्रुताज्जज्ञे जयात्तु विजयोऽभवत् । विजयस्य ऋतः पुत्रः ऋतस्य सुनयः सुतः ॥ १,१३८.
सुनयाद्वीतहव्यस्तु वीतहव्याद्धतिः स्मृतः । बहुलाश्वो धृतेः पुत्रो बहुलाश्वात्कृतिः स्मृतः ॥ १,१३८.
जनकस्य द्वये वंशे उक्तो योगसमाश्रयः ॥ १,१३८.
श्रीगरुडमहापुराणम् १३९ हरिरुवाच । सूर्यस्य कथितो वंशः सोमवंशं शृणुष्व मे । नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रेः समुद्भवः ॥ १,१३९.
अत्रेः सोमस्तस्य भार्या तारा सुरगुरोः प्रिया । सोमात्तरा बुधं जज्ञे बुधपुत्रः पुरूरवाः ॥ १,१३९.
बुधपुत्रादथोर्वश्यां षट्पुत्रास्तु श्रुतात्मकः । विश्वावसुः शतायुश्च आयुर्धोमानमावसुः ॥ १,१३९.
अमावसोर्भोमनामा भीमपुत्रश्च काञ्चनः । काञ्चनस्य सुहोत्रोऽभूज्जह्रुश्चाभूत्सुहोत्रतः ॥ १,१३९.
जह्नोः सुमन्तुरभवत्सुमन्तोरपजापकः । बलाकाश्वस्तस्य पुत्रो बलाकाश्वात्कुशः स्मृतः ॥ १,१३९.
कुशाश्वः कुशनाभश्चामूर्तरयो वसुः कुशात् । गाधिः कुशाश्वात्संजज्ञे विश्वामित्रस्तदात्मजः ॥ १,१३९.
कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा । ऋचीकाज्जमदाग्निश्च रामस्तस्याभवत्सुतः ॥ १,१३९.
विश्वामित्राद्देवरातमदुच्छन्दादयः सुताः । आयुषो नहुषस्तस्मादनेना रजिरम्भकौ ॥ १,१३९.
क्षत्त्रवृद्धः क्षत्त्रवृद्धात्सुहोत्रश्चाभवन्नृपः । काश्यकाशौगृत्समदः सुहोत्रादभवंस्त्रयः ॥ १,१३९.