अनेनास्तु ककुत्सथाच्च पृथुः पुत्रस्त्वनेनसः । विश्वरातः पृथोः पुत्र आर्द्रेऽभूद्विश्वराततः ॥ १,१३८.
युवनाश्वोऽभवच्चार्द्राच्छावस्तो युवनाश्वतः । बृहदश्वस्तुशावस्तात्तत्पुत्रः कुवलाश्वकः ॥ १,१३८.
धुन्धुमारो हि विक्यातो दृढश्वश्चततोऽभवत् । चन्द्राश्वः कपिलाश्वश्च हर्यश्वश्च दृढश्वतः ॥ १,१३८.
हर्यश्वाच्च निकुम्बोऽभूद्धिताश्वश्च निकुम्भतः । पूजाश्वश्च हिताश्वाच्च तत्सतो युवनाश्वकः ॥ १,१३८.
युवनाश्वाच्च मान्धाता बिन्दुमत्यास्ततोऽभवत् । मुचुकुन्दोऽम्बरीषश्च पुरुकुत्सस्त्रयः सुताः ॥ १,१३८.
पञ्चाशत्कन्यकाश्चैव भार्यास्ताः सौभरेर्मुनेः । युवनाश्वोऽम्बरीषाच्च हरितो युवनाश्वतः ॥ १,१३८.
पुरुकुत्सान्नर्मदायां त्रसदस्युरबूत्सुतः । अनरण्यस्ततो जातो हर्यश्वोऽप्यनरण्यतः ॥ १,१३८.
तत्पुत्रोऽभूद्वसुमनास्त्रिधन्वा तस्य चात्मजः । त्रय्यारुणस्तस्य पुत्रस्तस्त सत्यरतः सुतः ॥ १,१३८.
यस्त्रिशङ्कुः समाख्यातो हरिश्चन्द्रोऽभवत्ततः । हरिश्चन्द्राद्रोहिताश्वो हरितो रोहिताश्वतः ॥ १,१३८.
हरितस्य सुतश्चञ्चुश्चञ्चोश्च विजयः सुतः । विजयाद्रुरुको जज्ञे रुरुकात्तु वृकः सुतः ॥ १,१३८.
वृकाद्बाहुर्नृपोऽभूच्च बाहोस्तु सगरः स्मृतः । षष्टिः पुत्र सहस्राणि सुमत्यां सगराद्धर ॥ १,१३८.
केशिन्यामेक एवासावसमञ्जससंज्ञकः ॥ १,१३८.
तस्यांशुमान्सुतो विद्वान्दिलीपस्तत्सुतोऽभवत् । भगीरथो दिलीपाच्च यो गङ्गामानयद्भुवम् ॥ १,१३८.
श्रुतो भगीरथसुतो नाभगश्च श्रुतात्किल । नाभागादम्बरीषोऽभूत्सिन्दुद्वीपोऽम्बरीषतः ॥ १,१३८.
सिन्दुद्वीपस्यायुतायुरृतुपर्णस्तदात्मजः । ऋतुषर्णात्सर्वकामः सुदासोऽभूत्तदात्मजः ॥ १,१३८.
सुदासस्य च सौदासो नाम्ना मित्रसहः स्मृतः । कल्माष पादसंज्ञश्च दमयन्त्यां तदात्मजः ॥ १,१३८.
अश्वकाख्योऽभवत्पुत्रो ह्यश्वकान्मूल(न्मृच्छ) कोऽभवत् । ततो दशरथो राजा तस्य चैलविलः सुतः ॥ १,१३८.
तस्य विश्वसहः पुत्रः खट्वाङ्गश्च तदात्मजः । खट्वाङ्गद्दीर्घबाहुश्च दीर्घबाहोर्ह्यजः सुतः ॥ १,१३८.
तस्य पुत्त्रो दशरथश्चत्वारस्तत्सुताः स्मृताः । रामलक्ष्मणशत्रुघ्नभरताश्च महाबलाः ॥ १,१३८.
रामात्कुशलवौ जातौ भरतात्तार्क्षपुष्करौ । चित्राङ्गदश्चन्द्रकेतुर्लक्ष्मणात्संबभूवतुः ॥ १,१३८.
सुबाहुशूरसेनौ च शत्रुघ्नात्संबभूवतुः । कुशस्य चातिथिः पुत्रो निषधो ह्यतिथेः सुतः ॥ १,१३८.
निषधस्य नलः पुत्रो नलस्य च नभाः स्मृतः । नभसः पुण्डरीकस्तुक्षेमधन्वा तदात्मजः ॥ १,१३८.
देवानीकस्तस्य पुत्रो देवानीकादहीनकः । अहीनकाद्रुरुर्यज्ञे पारियात्रो रुरोः सुतः ॥ १,१३८.
पारियात्राद्दलो यज्ञे दल पुत्रश्छलः स्मृतः । छलादुक्थस्ततो ह्युक्थाद्वज्रनाभस्ततो गणः ॥ १,१३८.
उषिताश्वो गणाज्जज्ञे ततो विश्वसहोऽभवत् । हिरण्यनाभस्तत्पुत्रस्तत्पुत्रः पुष्पकः स्मृतः ॥ १,१३८.
ध्रुवसन्धिरभूत्पुष्पाद्ध्रुवसन्धेः सुदर्शनः । सुदर्शनादग्निवर्णः पद्मवणोऽग्निवर्णतः ॥ १,१३८.
शीघ्रस्तु पद्मवर्णात्तु शीघ्रात्पुत्रो मरुस्त्वभूत् । मरोः प्रसुश्रुतः पुत्रस्तस्य चोदावसुः सुतः ॥ १,१३८.
उदावसोर्नन्दिवर्धनः सुकेतुर्नन्दिवर्धनात् । सुकेतोर्देवरातोऽभूद्वृहदुक्थस्ततः सुतः ॥ १,१३८.
बृहदुक्थान्महावीर्यः सुधृतिस्तस्य चात्मजः । सुधृतेर्धृष्टकेतुश्च हर्यश्वो धृष्टकेतुतः ॥ १,१३८.
हर्यश्वात्तु मरुर्जातो मरोः प्रतीन्धकोऽभवत् । प्रतीन्धकात्कृतिरथो देवमीढस्तदात्मजः ॥ १,१३८.