द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः । चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽपरे ॥ १,१३७.
श्रीगरुडमहापुराणम् १३८ (इति व्रतानि समाप्तानि) । हरिरुवाच । राज्ञां वंशान्प्रवक्ष्यामि वंशानुचरितानि च । विष्णुनाभ्यब्जतो ब्रह्मा दक्षोऽङ्गुष्ठाच्च तस्य वै ॥ १,१३८.
ततोऽपितर्विवस्वांश्च ततः सूनुर्विवस्वतः मनुरिक्ष्वाकुशर्याती नृगो धृष्टः प्रषध्रकः ॥ १,१३८.
नरिष्यन्तश्च नाभागो दिष्टः शशक एव च । मनोरासीदिला कन्या सुद्युम्नोऽस्य सुतोऽभवत् ॥ १,१३८.
इलायां तु बुधाज्जातो राजा रुद्र पुरूरवाः । सुतास्त्रयश्च सुद्युम्नादुत्कलो विनतो गयः ॥ १,१३८.
अभृच्छ्रद्रो गोवधात्तु पृषध्रस्तु मनोः सुतः । करूषात्क्षत्त्रिया जाता कारूषा इति विश्रुताः ॥ १,१३८.
दिष्टपुत्रस्तु नाभागो वैश्यातामगमत्स च । तस्माद्भलन्दनः पुत्रो वत्सप्रीतिर्भलन्दनात् ॥ १,१३८.
ततः पांशुः खनित्रोऽभूद्भूपस्तस्मात्ततः क्षुपः । क्षुपाद्विंशोऽभवत्पुत्रो विंशाज्जातो विविंशकः ॥ १,१३८.
विविंशाच्च खनीनेत्रो विभूतिस्तत्सुतः स्मृतः । करन्धमो विभूतेस्तु ततो जातोऽप्यविक्षितः ॥ १,१३८.
मरुत्तोऽविक्षितस्यापि नरिष्यन्तस्ततः स्मृतः । नरिष्यन्तात्तमो जातस्ततोभूद्राजवर्धनः ॥ १,१३८.
राजवर्धात्सुधृतिश्च नरोऽभूत्सुधृतेः सुतः । नराच्च केवलः पुत्रः केवलाद्धुन्धुमानपि ॥ १,१३८.
धुन्धुमतो वेगवांश्च बुधो वेगवतः सुतः । तृणबिन्दुर्बुधाज्जातः कान्या चैलविला तथा ॥ १,१३८.
विशालं जनयामास तृणबिन्दोस्त्वलम्बुसा । विशालाद्धेमचन्द्रोऽभूद्धेम चन्द्राच्च चन्द्रकः ॥ १,१३८.
धूम्राश्वश्चैव चन्द्रात्तु धूम्राश्वात्सृञ्जयस्तथा । सञ्जयात्सहदेवोऽभूत्कृशाश्वस्तत्सुतोऽभवत् ॥ १,१३८.
कृशाश्वात्सोमदत्तस्तुततोऽभूज्जनमेजयः । तत्पुत्रश्च सुमन्तिश्च एते वैशालका नृपाः ॥ १,१३८.
शर्यातेस्तु सुकन्याबूत्सा भार्या च्यवनस्य तु । अनन्तो नाम शार्यते रनन्ताद्रेवतोऽभवत् ॥ १,१३८.
रैवतो रेवतस्यापि रैवताद्रेवती सुता । धृष्टस्य धार्ष्टर्(त) कं क्षेत्रं वैष्णवं (श्यकं) तद्वभूव ह ॥ १,१३८.
नाभागपुत्रो नेष्ठो ह्यम्बरीषोऽपि तत्सुतः । अम्बरीषाद्विरूपोऽभूत्पृषदश्वो विरूपतः ॥ १,१३८.
रथीनरश्च तत्पुत्रो वासुदेवपरायणः । इक्ष्वाकोस्तु त्रयः पुत्राः विकुक्षिनिमिदण्डकाः ॥ १,१३८.
इक्ष्वाकुजो विकुक्षिस्तु शशादः शशभक्षणात् । पुरञ्जयः शशादाच्च ककुत्स्थाख्योऽभवत्सुतः ॥ १,१३८.
अनेनास्तु ककुत्सथाच्च पृथुः पुत्रस्त्वनेनसः । विश्वरातः पृथोः पुत्र आर्द्रेऽभूद्विश्वराततः ॥ १,१३८.
युवनाश्वोऽभवच्चार्द्राच्छावस्तो युवनाश्वतः । बृहदश्वस्तुशावस्तात्तत्पुत्रः कुवलाश्वकः ॥ १,१३८.
धुन्धुमारो हि विक्यातो दृढश्वश्चततोऽभवत् । चन्द्राश्वः कपिलाश्वश्च हर्यश्वश्च दृढश्वतः ॥ १,१३८.
हर्यश्वाच्च निकुम्बोऽभूद्धिताश्वश्च निकुम्भतः । पूजाश्वश्च हिताश्वाच्च तत्सतो युवनाश्वकः ॥ १,१३८.
युवनाश्वाच्च मान्धाता बिन्दुमत्यास्ततोऽभवत् । मुचुकुन्दोऽम्बरीषश्च पुरुकुत्सस्त्रयः सुताः ॥ १,१३८.
पञ्चाशत्कन्यकाश्चैव भार्यास्ताः सौभरेर्मुनेः । युवनाश्वोऽम्बरीषाच्च हरितो युवनाश्वतः ॥ १,१३८.
पुरुकुत्सान्नर्मदायां त्रसदस्युरबूत्सुतः । अनरण्यस्ततो जातो हर्यश्वोऽप्यनरण्यतः ॥ १,१३८.
तत्पुत्रोऽभूद्वसुमनास्त्रिधन्वा तस्य चात्मजः । त्रय्यारुणस्तस्य पुत्रस्तस्त सत्यरतः सुतः ॥ १,१३८.
यस्त्रिशङ्कुः समाख्यातो हरिश्चन्द्रोऽभवत्ततः । हरिश्चन्द्राद्रोहिताश्वो हरितो रोहिताश्वतः ॥ १,१३८.
हरितस्य सुतश्चञ्चुश्चञ्चोश्च विजयः सुतः । विजयाद्रुरुको जज्ञे रुरुकात्तु वृकः सुतः ॥ १,१३८.