स्नात्वाचान्तोर्ऽचयित्वा तु कृतपुष्पाञ्जलिर्वदेत् । नमोनमस्ते गोविन्द बुध श्रवणसंज्ञक ! ॥ १,१३६.
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव । प्रीयतां देवदेवेशो विप्रेभ्यः कलशान्ददेत् । नद्यस्तीरेऽयः वा कुर्यात्सर्वान्कामानवाप्नुयात् ॥ १,१३६.
श्रीगरुडमहापुराणम् १३७ ब्रह्मोवाच । कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः । रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः ॥ १,१३७.
(इति मदनकत्रयोदशीव्रतम्) । चतुर्दश्यां तथाष्टभ्यां पक्ष्योः शुक्लकृष्णयोः । योऽब्दमेकं न भुञ्जीत मुक्तिभाक्शिवपूजनात् ॥ १,१३७.
(इति शिवचतुर्दश्यष्टमीव्रतम्) । त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम् । सूर्यलोकमवाप्नोति धामव्रतमिदं शुभम् ॥ १,१३७.
अमावस्यां पितॄणां च दत्तं जलादितदक्षयम् । नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक् ॥ १,१३७.
(इति वारव्रतानि) । द्वादशर्क्षाणि विप्रर्षे ! प्रतिमासं तु यानि वै । तन्नाम्नान्तेऽतच्युतं तेषु सम्यक्संपूजयेन्नरः ॥ १,१३७.
केशवं मार्गशीर्षे तु इत्यादौ कृतिकादिके (का) । घृतहोमश्चतुर्मासं कृसरञ्च निवेदयेत् ॥ १,१३७.
आषाढादौ पायसं तु विप्रांस्तेनैव भोजयेत् । पञ्चाव्यजलस्नाननैवेद्यैर्नक्तमाचरेत् ॥ १,१३७.
अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते । विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् ॥ १,१३७.
पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम् । एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेत् ॥ १,१३७.
नमोनमस्तेऽच्युत ! संक्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् । ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव ॥ १,१३७.
यथाच्युत !त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात् । तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय ॥ १,१३७.
अच्युतानन्त ! गोविन्द ! प्रसीद यदभीप्सितम् । तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥ १,१३७.
कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः । उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीम् ॥ १,१३७.
सप्तमीं पूजयेद्विष्णुं दुर्गां शम्बुं रविं क्रमात् । तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः ॥ १,१३७.
एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन शाकाद्यैः पूजयन्तसर्वदेवताः ॥ १,१३७.
सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात् । धनदोऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः ॥ १,१३७.
श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया । नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करोर्ऽथदः ॥ १,१३७.
दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः । इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः ॥ १,१३७.
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः । चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽपरे ॥ १,१३७.
श्रीगरुडमहापुराणम् १३८ (इति व्रतानि समाप्तानि) । हरिरुवाच । राज्ञां वंशान्प्रवक्ष्यामि वंशानुचरितानि च । विष्णुनाभ्यब्जतो ब्रह्मा दक्षोऽङ्गुष्ठाच्च तस्य वै ॥ १,१३८.
ततोऽपितर्विवस्वांश्च ततः सूनुर्विवस्वतः मनुरिक्ष्वाकुशर्याती नृगो धृष्टः प्रषध्रकः ॥ १,१३८.
नरिष्यन्तश्च नाभागो दिष्टः शशक एव च । मनोरासीदिला कन्या सुद्युम्नोऽस्य सुतोऽभवत् ॥ १,१३८.
इलायां तु बुधाज्जातो राजा रुद्र पुरूरवाः । सुतास्त्रयश्च सुद्युम्नादुत्कलो विनतो गयः ॥ १,१३८.
अभृच्छ्रद्रो गोवधात्तु पृषध्रस्तु मनोः सुतः । करूषात्क्षत्त्रिया जाता कारूषा इति विश्रुताः ॥ १,१३८.
दिष्टपुत्रस्तु नाभागो वैश्यातामगमत्स च । तस्माद्भलन्दनः पुत्रो वत्सप्रीतिर्भलन्दनात् ॥ १,१३८.
ततः पांशुः खनित्रोऽभूद्भूपस्तस्मात्ततः क्षुपः । क्षुपाद्विंशोऽभवत्पुत्रो विंशाज्जातो विविंशकः ॥ १,१३८.
विविंशाच्च खनीनेत्रो विभूतिस्तत्सुतः स्मृतः । करन्धमो विभूतेस्तु ततो जातोऽप्यविक्षितः ॥ १,१३८.
मरुत्तोऽविक्षितस्यापि नरिष्यन्तस्ततः स्मृतः । नरिष्यन्तात्तमो जातस्ततोभूद्राजवर्धनः ॥ १,१३८.