इति ध्यानं समाख्यातं तव शङ्कर सुव्रत 14.
संसारसागराद्धोरान्मुच्यते किं जपन्प्रभो 15.
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् 15.
यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! 15.
ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः 15.
बलिबन्धनकृद्वेधा वरेण्यो वेदवित्किविः 15.
वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः 15.
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः 15.
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः 15.
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः 15.
अपारः परमार्थश्च पराणां च परः प्रभुः 15.
शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः 15.
प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः 15.
सर्वस्य जगतो धाम सर्वदर्शो च सर्वभृत् 15.
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः 15.
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् 15.
सर्वाध्यक्षः सुराऽध्यक्ष सुरासुरनमस्कृतः 15.
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः 15.
शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च 15.
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्य (त्प) दस्तथ 15.
कर्म्मकर्त्ता च कर्मैव क्रिया कार्य्यं तथैव च 15.
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः 15.
पशूनां च पतिः प्रायो वसूनां पतिरेव च 15.
वनस्पतीनां च पतिरनिलस्य पतिस्तथा 15.
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा 15.
नागानां पतिरर्कस्य दक्षस्य पतिरेव च 15.
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः 15.
सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा 15.
मुनीनां च पतिश्चैव सूर्य्यस्य पतिरुत्तमः 15.
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा 15.