नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः । रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका ॥ १,१३३.
पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा । म (मा) हिषोऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः ॥ १,१३३.
जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते । पञ्च (ञ्चा) दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् । लिङ्गस्यां पूजयेद्वापि पादुकेऽथ जलेऽपि वा ॥ १,१३३.
विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत् । पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत् ॥ १,१३३.
विधिवत्कालिकालीति तदुत्थरुधिरादिकम् । नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम् ॥ १,१३३.
दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम् ॥ १,१३३.
श्रीगरुडमहापुराणम् १३४ ब्रह्मोवाच । महाकौशिकमन्त्रश्च कथ्यतेऽत्र महाफलः ॥ १,१३४.
(महाकौशिकमन्त्रः)ओं महाकौशिकाय नमः । ओं हूं हूं प्रस्फुर लल लल कुल्व कुल्व चुल्व चुल्व खल्ल खल्ल मुल्व मुल्व गुल्व गुल्व तुल्व पुल्ल पुल्ल धल्व धुल्व धुम धुम धमधम मारय मारय धकधक वज्ञापयज्ञापय विदारयविदारय कम्पकम्प कम्पयकम्पय पूरयपूरय आवेशयावेशय ओं ह्रीं ओं ह्रीं हं वं वं हुं तटतट मदमद ह्रीं ओं हूं नैरृताया नमः निरृतये दातव्यम् । महाकौशिकमन्त्रेण मन्त्रितं बलिमर्पयेत् ॥ १,१३४.
तस्याग्रतो नृपः स्नायाच्छत्रं कृत्वा च पैष्टिकम् । खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः ॥ १,१३४.
मातॄणां चैव देवीनां पूजा कार्या तथा निशि । ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ १,१३४.
वाराही चैव माहेन्द्री चामुण्डा चण्डिका तथा । जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥ १,१३४.
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते । क्षीराद्यैः स्नापयेद्देवीं कन्यकाः प्रमदास्तथा ॥ १,१३४.
द्विजाती (दी) नथ पाषण्डानन्नदानेन पूजयेत् । ध्वजपत्रपताकाद्यै रथयात्रासु वस्त्रकैः । महानवम्यां पूजेयं जयराज्यादिदायिका ॥ १,१३४.
श्रीगरुडमहापुराणम् १३५ ब्रह्मोवाच । नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेत् । देवीं विप्रंल्लक्षमेकञ्जपेद्वीरं व्रती नरः ॥ १,१३५.
(ति वीरनवमीव्रतम्) । ब्रह्मोवाच । चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत् । आयुरारोग्यसौभाग्यं शत्रुभिश्चापराजितः ॥ १,१३५.
(इति दमनकनवमीव्रतम्) । ब्रह्मोवाच । दशम्यामेकभक्ताशी समान्ते दशधेनुदः । दिशश्च काञ्चनीर्दत्त्वा ब्रह्माण्डाधिपतिर्भवेत् ॥ १,१३५.
(इति दिग्दशमीव्रतम्) ब्रह्मोवाच । एकादश्यामृषिपूजा कार्या सर्वोपकारिका । धनवान्पुत्रवांश्चान्ते ऋषिलोके महीयते ॥ १,१३५.
मरीचिरत्र्यं गिरसौ पुलसत्यः पुलहः क्रतुः । प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ॥ १,१३५.
चैत्रादौ कारयेत्पूजां माल्यैश्च दमनोद्भवैः । अशोकाख्याष्टमीप्रोक्ता वीराख्या नवमीतथा ॥ १,१३५.
दमनाख्या दिग्दशमी नवम्येकादशी तथा ॥ १,१३५.
श्रीगरुडमहापुराणम् १३६ ब्रह्मोवाच । श्रवणद्वादशों वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् । एकादशी द्वादशी च श्रवणेन च संयुता ॥ १,१३६.
विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्षयम् । एक भक्तेन नक्तेन तथैवायाचितेन च ॥ १,१३६.
उपवासेन भैक्ष्येण नैवाद्बादशिको भवेत् । कास्यं मांसं तथा क्षौद्रं लोभं वितथभाषणम् ॥ १,१३६.
व्यायामं च व्यवायं च दिवास्वप्नमथाञ्जनम् । शिलाषिष्टं मसूरं च द्वादश्यां वर्जयेन्नरः ॥ १,१३६.
मासी भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । महती द्वादशी ज्ञेया उपवासे महाफला ॥ १,१३६.
संगम सरितां स्नानं बुधयुक्ता महाफला । कुंभे सरत्ने सजले यजेत्स्वर्णं तु वामनम् ॥ १,१३६.
सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् । ओं नमो वासुदेवाय शिरः संपूजयेत्ततः ॥ १,१३६.
श्रीधराय मुखं तद्वत्कण्ठं कृष्णाय वै नमः । नमः श्रीपतये वक्षो भुजौ सर्वास्त्रधारिणे ॥ १,१३६.
व्यापकाय नमः कुक्षौ केशवायोदरं बुधः । त्रैलोक्यपतये मेढ्रं जङ्घे सर्वभृते नमः ॥ १,१३६.
सर्वात्मने नमः पादौ नैवेद्यं घृतपायसम् । कुम्भांश्च मोदकान्दद्याज्जागरं कारयेन्निशि ॥ १,१३६.