तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः । तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम् ॥ १,१३२.
भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः । आम्र पत्रपुटे कृत्वा यो भुड्क्ते कुशवोष्टिते ॥ १,१३२.
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवे (लभे) त् । बुधं पञ्चोपचारेण पूजयित्वा जलाशये ॥ १,१३२.
शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम् । बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः ॥ १,१३२.
बाणचापधरंश्यामं दले चाङ्गनि मध्यतः । बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम् ॥ १,१३२.
पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः । रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः ॥ १,१३२.
दुहिता विजयानाम्नी व (ध) नपालो वृषोऽभवत् । गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतोऽरमत् ॥ १,१३२.
गोपालकैर्वृषश्चौरैः क्रीडास्थोपहृतो बलात् । गङ्गातः स च उत्थाय वनं बभ्राम दुः खितः ॥ १,१३२.
जलार्थं विजया चागाद्भ्रा(न्मा) त्रा सार्धं च साप्यगात् । पिपासितो मृणालार्थो आगतोऽथ सरोवरम् ॥ १,१३२.
दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः । स ता गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः ॥ १,१३२.
स्त्रियोऽब्रुवन्व्रतं कर्तुं दास्यामश्च कुरु व्रतम् । पत्न्यर्थं धनपाना (लार्) थं पूजयामासतुर्बुधम् ॥ १,१३२.
पुटद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् । स्त्रियो गतास्तौ धनदौ धनपानमपश्यताम् ॥ १,१३२.
चौरैर्दत्तं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् । वीरं च दुः खितं नत्वा रात्रौ सुप्तो यथासुखम् ॥ १,१३२.
कन्यां च युवतीं दृष्ट्वा कस्मै देया सुता मया । यमायेत्यब्रवीद्दुः खात्साचाराद्व्रतसत्फलात् ॥ १,१३२.
स्वर्गं गतौ च पितरौ व्रतं राज्याय कौ शिकः । चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥ १,१३२.
यमोऽपि विजयामाह गृहस्था भव मे पुरे । नोद्धाटयान्यत्रगते यमे सा न तथाकरोत् । अपश्यन्मातरं स्वां सा पाशयातनया स्थिताम् ॥ १,१३२.
अथोद्विग्ना कौशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रतम् । चक्रे च सा ततो मुक्ता माता तस्माच्चरेद्व्रतम् ॥ १,१३२.
व्रतपुण्यप्रभावेण स्वर्गं गत्वावसत्सुखम् ॥ १,१३२.
श्रीगरुडमहापुराणम् १३३ ब्रह्मोवाच । अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ १,१३३.
त्वामशोक ! हराभीष्ट ! मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥ १,१३३.
(इत्यशोकाष्टमीव्रतम्) । ब्रह्मोवाच । शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता । सा महानवमीत्युक्ता स्नानदानादि चाक्षयम् ॥ १,१३३.
नवमी केवला चापि दुर्गां चैव तु पूजयेत् । महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ॥ १,१३३.
अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च । जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा ॥ १,१३३.
दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु । दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः ॥ १,१३३.
षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम् । अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम् ॥ १,१३३.
अष्टम्यां नव गेहानि दारुजान्येकमेव वा । तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा ॥ १,१३३.
शूले खङ्गे पुस्तके वा पटे वा मण्डले (पे) यजेत् । कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः ॥ १,१३३.
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती । शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम् ॥ १,१३३.
शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् । शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना ॥ १,१३३.
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १,१३३.