योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः । (स्नानमन्त्रः) यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः ॥ १,१३१.
(अर्चनम०)विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः । (शयन०)सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः ॥ १,१३१.
स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा । शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ॥ १,१३१.
जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् । क्षीरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव ! ॥ १,१३१.
गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम । श्रियै च वसुदेवाय नन्दाय च बलाय च ॥ १,१३१.
यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम् । अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम् ॥ १,१३१.
वासुदेवं हृषीकेशं माधवं मधुसूदनम् । वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ॥ १,१३१.
दामोदरं पद्मनाभं केशवं गारुडध्वजम् । गोविन्दमच्युतं देवमनन्तम पराजितम् ॥ १,१३१.
अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् । अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ॥ १,१३१.
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् । पीतम्बरधरं दिव्यं वनमालाविभूषितम् ॥ १,१३१.
श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् । यं देवं देवकी देवी वसुदेवादजीजनत् ॥ १,१३१.
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः । नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः ॥ १,१३१.
त्राहि मां देवदेवेश ! हरे ! संसारसागरात् । त्राहि मां सर्वपापघ्न ! दुःखशोकार्णवात्प्रभो ! ॥ १,१३१.
देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात् । दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत् ॥ १,१३१.
सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात् । पुष्कराक्ष ! निमग्नोऽहं मह्तयज्ञानसागरे ॥ १,१३१.
त्राहि मां देवदेवेश ! त्वामृतेऽन्यो न रक्षिता । स्वजन्म वासुदेवाप गोब्राह्मणहिताय च ॥ १,१३१.
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः । शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक् ॥ १,१३१.
श्रीगरुडमहापुराणम् १३२ ब्रह्मोवाच । नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः । पौरन्दरपदं याति सद्गतिव्रतमुच्यते ! ॥ १,१३२.
शुक्लाष्टभ्यां पौषमासे महारुद्रेति साधु वै । मत्प्रीतये कृतं देवि शथसाहस्रिकं फलम् ॥ १,१३२.
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा । भविष्यति तदा तस्यां व्रतमेतत्कथा परा ॥ १,१३२.
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः । तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम् ॥ १,१३२.
भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः । आम्र पत्रपुटे कृत्वा यो भुड्क्ते कुशवोष्टिते ॥ १,१३२.
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवे (लभे) त् । बुधं पञ्चोपचारेण पूजयित्वा जलाशये ॥ १,१३२.
शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम् । बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः ॥ १,१३२.
बाणचापधरंश्यामं दले चाङ्गनि मध्यतः । बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम् ॥ १,१३२.
पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः । रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः ॥ १,१३२.
दुहिता विजयानाम्नी व (ध) नपालो वृषोऽभवत् । गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतोऽरमत् ॥ १,१३२.
गोपालकैर्वृषश्चौरैः क्रीडास्थोपहृतो बलात् । गङ्गातः स च उत्थाय वनं बभ्राम दुः खितः ॥ १,१३२.
जलार्थं विजया चागाद्भ्रा(न्मा) त्रा सार्धं च साप्यगात् । पिपासितो मृणालार्थो आगतोऽथ सरोवरम् ॥ १,१३२.
दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः । स ता गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः ॥ १,१३२.