अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक् सप्तम्यां नियतः स्नात्वा पूजयित्वा दिवाकरम् ॥ १,१३०.
दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति । खर्जूरं नारिकेलं वा प्राशयेन्मातुलुङ्गकम् ॥ १,१३०.
सर्वे भवन्तु सफला मम कामाः समन्ततः । (इति फलसप्तमी) संपूज्य देवं सप्तम्यां पायसेनाथ भोजयेत् ॥ १,१३०.
विप्रांश्च दक्षिणां दत्त्वा स्वयं चाथ पयः पिबेत् । भक्ष्यं चोष्यं तथा लेह्यं ओदनं चेति कीर्तितम् ॥ १,१३०.
धनपुत्रादिकामस्तु त्यजेदेतदनोदनः वाय्वाशी विजयेत्क्षुच्च कुर्याद्विजयसप्तमीम् । अद्यादर्कं च कामेच्छुरुपवासे तरेन्मदम् ॥ १,१३०.
गोधूममाषयवषष्टिककांस्यपात्रं पाषाणपिष्टमधुमैषुनमद्यमांसम् । अभ्यञ्जनाञ्जनतिलांश्च विवर्जयेद्यः तस्येषितं भवति सप्तसु सप्तमीषु ॥ १,१३०.
श्रीगरुडमहापुराणम् १३१ ब्रह्मोवाच । ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः । दूर्वां सौरीं गणेशं च फलपुष्पैः शिवं यजेत् ॥ १,१३१.
फलव्रीह्यादिभिः सर्वैः शम्भवेनमः शिवाय च । त्वं दूर्वेऽमृतजन्मासि ह्यष्टमी सर्वकामभाक् ॥ १,१३१.
अनग्निपक्वमश्नीयान्मुच्यते ब्रह्महत्यया । (इति दूर्वाष्टमीव्रतम्) । कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेऽर्चनं हरेः ॥ १,१३१.
कार्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्मनः । उपोषितोऽर्चयेन्मन्त्रैस्तिथि भान्ते च पारणम् ॥ १,१३१.
योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः । (स्नानमन्त्रः) यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः ॥ १,१३१.
(अर्चनम०)विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः । (शयन०)सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः ॥ १,१३१.
स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा । शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ॥ १,१३१.
जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् । क्षीरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव ! ॥ १,१३१.
गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम । श्रियै च वसुदेवाय नन्दाय च बलाय च ॥ १,१३१.
यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम् । अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम् ॥ १,१३१.
वासुदेवं हृषीकेशं माधवं मधुसूदनम् । वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ॥ १,१३१.
दामोदरं पद्मनाभं केशवं गारुडध्वजम् । गोविन्दमच्युतं देवमनन्तम पराजितम् ॥ १,१३१.
अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् । अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ॥ १,१३१.
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् । पीतम्बरधरं दिव्यं वनमालाविभूषितम् ॥ १,१३१.
श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् । यं देवं देवकी देवी वसुदेवादजीजनत् ॥ १,१३१.
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः । नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः ॥ १,१३१.
त्राहि मां देवदेवेश ! हरे ! संसारसागरात् । त्राहि मां सर्वपापघ्न ! दुःखशोकार्णवात्प्रभो ! ॥ १,१३१.
देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात् । दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत् ॥ १,१३१.
सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात् । पुष्कराक्ष ! निमग्नोऽहं मह्तयज्ञानसागरे ॥ १,१३१.
त्राहि मां देवदेवेश ! त्वामृतेऽन्यो न रक्षिता । स्वजन्म वासुदेवाप गोब्राह्मणहिताय च ॥ १,१३१.
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः । शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक् ॥ १,१३१.
श्रीगरुडमहापुराणम् १३२ ब्रह्मोवाच । नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः । पौरन्दरपदं याति सद्गतिव्रतमुच्यते ! ॥ १,१३२.
शुक्लाष्टभ्यां पौषमासे महारुद्रेति साधु वै । मत्प्रीतये कृतं देवि शथसाहस्रिकं फलम् ॥ १,१३२.
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा । भविष्यति तदा तस्यां व्रतमेतत्कथा परा ॥ १,१३२.