यजेदशून्यशय्यायां फलं दद्याद्द्विजातये । शय्यां दत्त्वा प्रार्थयेच्च श्रीधराय नमः श्रियै ॥ १,१२९.
उमांशिवं हुताशं च तृतीयायां च पूजयेत् । हविष्यमन्न नैवेद्य देय दमनकं तथा ॥ १,१२९.
चैत्रादौ फलमाप्नोति उमया मे प्रभाषितम् । फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ॥ १,१२९.
समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् । संपूज्य विप्रमिथनं भवानी प्रीयतामिति ॥ १,१२९.
गौरीलोके वसेन्नित्यं सौभाग्यकरमुत्तमम् । गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ॥ १,१२९.
मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् । मार्गेतृतीयामारभ्य अवियोगादिमाप्नुयात् ॥ १,१२९.
चतुर्थ्यां सितमाघादौ निराहारो व्रतान्वितः । दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्क्ते तिलोदकम् ॥ १,१२९.
वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात् । गः स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः ॥ १,१२९.
ग्लैं ग्लांहृदये गां गीं हूं ह्रीं ह्रीं शिरः शिखा । गूं वर्म गों च गैं नेत्रं गों च आवाहनादिषु ॥ १,१२९.
आगच्छोल्काय गनन्धोल्कः पुष्पोल्को धूपकोल्ककः । दीपोल्काय महोल्काय बलिश्चाथ विस (मार्) जनम् ॥ १,१२९.
सिदेधोल्काय च गायत्त्री (त्र) न्यासोंगुष्ठादिरीरितः । ओं महाकर्णाय विद्महेवक्रतुण्डाय धीमहितन्नो दन्तिः प्रचोदयात् ॥ १,१२९.
पूजयोत्तिलहोमैश्च एते पूज्या गणास्तथा । गणाय गणपतये स्वाहा कूष्माण्डकाय च ॥ १,१२९.
अमोघोल्कायैकदन्ताय त्रिपुरान्तकरूपिणे । ओं श्याम (व) दन्तविकरालास्याहवेपाय वै नमः ॥ १,१२९.
पद्मदंष्टाय स्वाहान्ते मुद्रा वै नर्तनं गणे । हस्ततालश्च हसनं सौभाग्यादिफलं भवेत् ॥ १,१२९.
मार्गशीर्षे तथा शुक्लचतुर्थ्यां पूजयेद्गण । अब्दं प्राप्नोति विद्याश्रीकीर्त्यायुः पुत्रसन्ततिम् ॥ १,१२९.
सोमवारे चतुर्थ्यां च समुपोष्यार्चयेद्गणम् । जपञ्जुह्वत्स्मरन्विद्या स्वर्गं निर्वाणतां व्रजेत् ॥ १,१२९.
यजेच्छुक्लचतुर्थ्यां यः खण्डलड्डुकमोद (मण्ड) कैः । विघ्नाचनेन सर्वान्स कामान्सौभाग्यमाप्नुयात् ॥ १,१२९.
पुत्रादिकं दमनकैर्दमनाख्या चतुर्थ्यपि । आं गणपतये नमः चतुर्थ्यन्तं यजेद्गणम् ॥ १,१२९.
मासे तु यस्मिन्कस्मिंश्चिज्जुहुयाद्वा जपेत्स्मरेत् । सर्वान्कामानवाप्नोति सर्वविघ्नविनाशनम् ॥ १,१२९.
विनायकं मूर्तिकाद्यं यजेदेभिश्च नामभिः । सोऽपि सद्गतिमाप्नोति स्वर्गमोक्षसुखानि च ॥ १,१२९.
गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः । नीलग्रीवो लम्बोदरो विकटो विघ्नराजकः ॥ १,१२९.
धूम्रवर्णो भालचन्द्रो दशमस्त विनायकः । गणपतिर्हस्तिमुखो द्वादशारे यजेद्गणम् ॥ १,१२९.
पृथक्समस्तं मेधावी सर्वान्कामानवाप्नुयात् । श्रावणे चाश्विने भाद्रे पञ्चम्यां कात्तिक शुभे ॥ १,१२९.
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः । ऐरावतो धृतराष्टः कर्कोटकधनञ्जयौ ॥ १,१२९.
घृताद्यैः स्नापिता ह्येते आयुरारोग्यसम्पदः । अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ॥ १,१२९.
तथा कर्काटकं नागं धृतराष्ट्रं च शङ्खकम् । कालीयं तक्षकं चैव पिङ्गलं मासिमासि च ॥ १,१२९.
यजेद्भाद्रसिते नागानष्टौ मुक्तिं दिवं व्रजेत् । द्वारस्योभयतो लेख्याः श्रावणे तु सिते यजेत् ॥ १,१२९.
पञ्चम्यां पूजयेन्नागाननन्तान्द्यान्महोरगान् । क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहम् । नागा अभयहस्ताश्च दष्टोद्धारातु पञ्चमी ॥ १,१२९.
श्रीगरुडमहापुराणम् १३० ब्रह्मोवाच । एवं भाद्रपदे मासि कार्तिकेयं प्रपूयेत् । स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते ॥ १,१३०.
सप्तम्यां प्राशयेच्चपि भोज्यं विप्रान्रविं यजेत् । ओं खखोल्कायमृतत्वं (तन्तं) प्रियसङ्गमो भव सद स्वाहा ॥ १,१३०.