वराहाय नमः पादौ क्रोडाकृतये नमः कटिम् । नाभिं गंभीरघोषाा उरः श्रीवत्सधारिणे ॥ १,१२७.
बाहुं सहस्रशिरसे ग्रीवां सर्वेश्वराय च । मुखं सर्वात्मने पूज्यं ललाटं प्रभवाय च ॥ १,१२७.
केशाः शतमयूखाय पूज्या देवस्य चक्रिणः । विधिना पूजयित्वा तु कृत्वा जागरणं निशि ॥ १,१२७.
श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् । प्रातर्विप्राय दत्त्वा च याचकाय शुभाय तत् ॥ १,१२७.
कनकक्रोडसहितं सन्निवेद्य परिच्छदम् । पश्चात्तु पारणं कुर्यान्नातितृप्तः सकृद्व्रतः ॥ १,१२७.
एवं कृत्वा नरो विद्यान्न भूय स्तनपो भवेत् । उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् । मनोऽभिलषितावाप्तिः कृत्वा सर्वव्रतादिकम् ॥ १,१२७.
श्रीगरुडमहापुराणम् १२८ ब्रह्मोवाच । व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः । शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम् ॥ १,१२८.
नियमास्तु विशेषाः स्युः व्रतस्यास्य दमादयः । नित्यं त्रिषवणं स्नायादधः शयी जितेन्द्रियः ॥ १,१२८.
स्त्रीशूद्रपतितानां तु वर्जयेदभिभाषणम् । पवित्राणि च पञ्चैव जुहुयाच्चैव शक्तितः ॥ १,१२८.
कृच्छ्राण्येतानि सर्वाणि चरेत्सुकृतवान्नरः । केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत् ॥ १,१२८.
कांस्यं माषं मसूरं चचणकं कोरदूषकम् । शाकं मधु परान्नं च वर्जयेदुपवासवान् ॥ १,१२८.
पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् । उपवासेन दुष्येत्तु दन्तधावनमञ्जनम् ॥ १,१२८.
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतं चरेत् । असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ॥ १,१२८.
उपवासः प्रदुष्येत दिवास्वप्ना क्षमैथुनात् । क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः ॥ १,१२८.
देवपूजाग्निहवने सन्तोषोस्तेयमेव च । सर्वव्रतेष्वयं धर्मः सामान्यो दशधास्मृतः ॥ १,१२८.
नक्षत्रदर्शनान्नक्तमनक्तं निशि भोजनम् । गोमूत्रं च पल दद्यादर्धाङ्गुष्ठं तु गोमयम् ॥ १,१२८.
क्षीरं सप्तपलं दद्याद्दध्नश्चैव पलत्रयम् । घृतमेकफलं दद्यात्पलमेकं कुशोदकम् ॥ १,१२८.
गायत्त्र्या चैव गन्धेति आप्यायस्व दृ दधिग्रहः । तेजोऽसीति च देवस्य ब्रह्मकूर्चव्रतं चरेत् ॥ १,१२८.
अग्न्याधानं प्रतिष्ठां तु यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ १,१२८.
माङ्गल्यमभिषेकं च मलमासे विवर्जयत् । दर्शाद्दर्शस्य चान्द्रः स्यात्त्रिंशाहोभिस्तु सावनः ॥ १,१२८.
रविसंक्रमणात्सौरो नाक्षत्रः सप्तविंशतिः । सौरो मासो विवाहाय यज्ञादौ सावनस्थितिः ॥ १,१२८.
युग्माग्नियुगभूतानि षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ १,१२८.
प्रतिपद्यप्यमावास्या तिथ्योर्मस्यं महाफलम् । एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुरा कृतम् ॥ १,१२८.
प्रारब्धतपसा स्त्रीणां रजो हन्याद्व्रतं न हि । अन्यैर्दानादिकं कुर्यात्कायिकं स्वयमेव च ॥ १,१२८.
क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि । दिनत्रयं न भुञ्जीत शिरसो मुण्डनं भवेत् ॥ १,१२८.
असामर्थ्ये शरीरस्य पुत्रादीन्कारयेद्व्रतम् । व्रतस्थं मूर्छितं विप्रं जलादीन्यनुपाययेत् ॥ १,१२८.
श्रीगरुडमहापुराणम् १२९ ब्रह्मोवाच । वक्ष्ये प्रतिपदादीनि व्रतानि व्यास शृण्वथ । वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥ १,१२९.
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः । चैत्रादौ कारयेच्चैव ब्रह्मपूजां यथाविधि । गन्धपुष्पार्चनैर्दानैर्माल्याद्यैश्च मनोरमैः ॥ १,१२९.
सहोमैः पूजयेद्देवं सर्वान्कामानवाप्नुयात् । कार्तिके त सितेऽष्टम्यां पुष्पहारी च वत्सरम् ॥ १,१२९.
पुष्पादिदाता रूपेण रूपभागी भवेन्नरः । कृष्णपक्षे तृतीयायां श्रावणे श्रीधरं श्रिया ॥ १,१२९.