सामान्यमण्डलं न्यस्य धातारं द्वारदेशतः । विधातारं तथा गङ्गां यमुनां च महानदीम् ॥ १,१२६.
द्वारश्रियं च दण्डं च प्रचण्डं वास्तुपूरुषम् । मध्ये चाधारशक्तिं च कूर्मं चानन्तमर्चयेत् ॥ १,१२६.
भूमिं धर्मं तथा ज्ञानं वैरग्यैश्वर्यमेव च । अधर्मादींश्च चतुरः कन्दं नालं च पङ्कजम् ॥ १,१२६.
कर्णिकां केसरं सत्त्वं राजसं तामसं गुणम् । सुर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः ॥ १,१२६.
दुर्गां गणं सरस्वतीं क्षेत्रपालं च कोणके । आसनं मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन् ॥ १,१२६.
अनिरुद्धं महात्मानं नारायणमथार्चयेत् । हृदयादीनि चाङ्गानि शङ्खादीन्यायुधानि च ॥ १,१२६.
श्रीगरुडमहापुराणम् १२७ ब्रह्मोवाच । माघमासे शुक्लपक्षे सूर्यर्क्षेण युता पुरा । एकादशी तथा चैका भीमेन समुपोषिता ॥ १,१२७.
आश्चर्य तु व्रतं कृत्वा पितॄणामनृणोऽभवत् । भीमद्वादशी विख्याता प्राणिनां पुण्यवर्धिनी ॥ १,१२७.
नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत् । विनिहन्ति महापापं कुनृपो विषयं यथा ॥ १,१२७.
कुपुत्त्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा । अधर्मं च यथा धर्मः कुमन्त्री च यथा नृपम् ॥ १,१२७.
अज्ञानेन यथा ज्ञानं शौचमाशौचकं यथा । अश्रद्धया यथा श्रद्धा सत्यञ्चैवानृतैर्यथा ॥ १,१२७.
हिमं यथोष्णमाहन्यादनर्थं चार्थसंचयः । यथा प्रकीर्तनाद्दानं तपो वै विस्मयाद्यथा ॥ १,१२७.
अशिक्षया यथा पुत्रो गावो दूरगतैर्यथा । क्रोधेन च यथा शान्तिर्यथा वित्तमवर्द्धनात् ॥ १,१२७.
ज्ञानेनैव यथा विद्या निष्कामेन यथा फलम् । तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा ॥ १,१२७.
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । युगपत्तुप्रजातानि(?) न निहन्ति त्रिपुष्करम् ॥ १,१२७.
न चापि नैमिषं क्षेत्रं कुरुक्षेत्रं प्रभासकम् । कालिन्दी यमुना गङ्गा न चैव न सरस्वती ॥ १,१२७.
न चैव सर्वतीर्थानि एकादश्याः समानि हि । न दानं न जपो होमो न चान्यत्सुकृतं क्वचित् ॥ १,१२७.
एकतः पृथिवीदानमेकतो हरिवासरः । ततोऽप्येका महापुण्या इयमेकादशी वरा ॥ १,१२७.
अस्मिन्वराहपुरुषं कृत्वा देवं तु हाटकम् । घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने ॥ १,१२७.
सर्वबीजभृते विप्राः सितवस्त्रावगुण्ठिते । सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्ननः ॥ १,१२७.
वराहाय नमः पादौ क्रोडाकृतये नमः कटिम् । नाभिं गंभीरघोषाा उरः श्रीवत्सधारिणे ॥ १,१२७.
बाहुं सहस्रशिरसे ग्रीवां सर्वेश्वराय च । मुखं सर्वात्मने पूज्यं ललाटं प्रभवाय च ॥ १,१२७.
केशाः शतमयूखाय पूज्या देवस्य चक्रिणः । विधिना पूजयित्वा तु कृत्वा जागरणं निशि ॥ १,१२७.
श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् । प्रातर्विप्राय दत्त्वा च याचकाय शुभाय तत् ॥ १,१२७.
कनकक्रोडसहितं सन्निवेद्य परिच्छदम् । पश्चात्तु पारणं कुर्यान्नातितृप्तः सकृद्व्रतः ॥ १,१२७.
एवं कृत्वा नरो विद्यान्न भूय स्तनपो भवेत् । उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् । मनोऽभिलषितावाप्तिः कृत्वा सर्वव्रतादिकम् ॥ १,१२७.
श्रीगरुडमहापुराणम् १२८ ब्रह्मोवाच । व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः । शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम् ॥ १,१२८.
नियमास्तु विशेषाः स्युः व्रतस्यास्य दमादयः । नित्यं त्रिषवणं स्नायादधः शयी जितेन्द्रियः ॥ १,१२८.
स्त्रीशूद्रपतितानां तु वर्जयेदभिभाषणम् । पवित्राणि च पञ्चैव जुहुयाच्चैव शक्तितः ॥ १,१२८.
कृच्छ्राण्येतानि सर्वाणि चरेत्सुकृतवान्नरः । केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत् ॥ १,१२८.