ईश्वरौवाच । माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी । तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ १,१२४.
कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः । उपोषितैः पूजितः सन्नरकात्तरयत्तथा ॥ १,१२४.
निषादश्चर्बुदे राजा पापी सुन्दरसेनकः । स कुक्रुरैः समायुक्तो मृगान्हन्तुं वनं गतः ॥ १,१२४.
मृगादि कमसंप्राप्य क्षुत्पिपासार्दितो गिरौ । रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः ॥ १,१२४.
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः । पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः ॥ १,१२४.
तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके । शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥ १,१२४.
जानुभ्यामवनीं गत्वा लिङ्गं स्प्टष्ट्वा गृहीतवान् । एवं स्नानं स्पर्शनं च पूजनं जागरोऽभवत् ॥ १,१२४.
प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च । काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ १,१२४.
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च । कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥ १,१२४.
एवमज्ञानतः पुण्यञ्ज्ञानात्पुण्यमथाक्षयम् । त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती ॥ १,१२४.
प्रातर्देव ! चतुर्दश्यां जागरिष्याम्यहं निशि । पूजां दानं तपो होमं करिष्याम्यात्मशक्तितः ॥ १,१२४.
चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनि । भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ १,१२४.
पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुं श्रितः । ओं नमो नमः शिवाय गन्धाद्यः पूजयेद्धरम् ॥ १,१२४.
तिलतण्डुलव्रीहींश्च जुहुयात्सघृतं चरुम् । हुत्वा पूर्णाहुतिं दत्त्वा शृणुयाद्गीतसत्कथाम् ॥ १,१२४.
अर्धरात्रे त्रियामे च चतुर्थे च पुनयर्जत् । मूलमन्त्रं तथा जप्त्वा प्रभाते तु क्षमापयेत् ॥ १,१२४.
अविघ्नेन व्रतं देव ! त्वत्प्रसदान्मयार्चितम् । क्षमस्व जगतां नाथ ! त्रैलोक्याधिपते हर ! ॥ १,१२४.
यन्मयाद्य कृतं पुण्यं यद्रुद्रस्य निवेदितम् । त्वत्प्रसादान्मया देव ! व्रतमद्य समापितम् ॥ १,१२४.
प्रसन्नो भव मे श्रीमन् गृहं प्रति च गम्यताम् । त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥ १,१२४.
भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् । देवादिदेव भूतेश लोकानुग्रहकारक ॥ १,१२४.
यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः । इति क्षमाप्य च व्रती कुर्याद्वादशवार्षिकम् ॥ १,१२४.
कीर्तिश्रीपुत्रराज्यादि प्राप्य शैवं पुरं व्रजेत् । द्वादशेष्वपि मासेषु प्रकुर्यादिह जागरम् ॥ १,१२४.
व्रती द्वादश संभोज्य दीपदः स्वर्गमाप्नुयात् ॥ १,१२४.
श्रीगरुडमहापुराणम् १२५ पितामह उवाच । मान्धाता चक्रवर्त्यासीदुपोष्यैकादशीं नृपः । एकादश्यां न भुञ्जीत पक्षयोरुभयारपि ॥ १,१२५.
दशम्येकादशीमिश्रा गान्धार्या समुपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ १,१२५.
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः । दशम्येकादशी यत्र तत्र सन्निहितोऽसुरः । बहुवाक्यविरोधेन सन्देहो जायते यदा ॥ १,१२५.
द्वादशी तु तदा ग्राह्या त्रयोदश्यान्तु पारणम् । एकादशी कलापिस्यादुपोष्या द्वादशी तथा ॥ १,१२५.
एकादशी द्वादशी च विशेषेण त्रयोदशी । त्रिमिश्रा सा तिथिर्ग्राह्या सर्वपापहरा शुभा ॥ १,१२५.
एकादशीमुपोष्यैवद्वादशीम थवा द्विज ! । त्रिमिश्रां चैव कुर्वीत न दशम्या युतां क्रचित् ॥ १,१२५.
रात्रौ जागरणं कुर्वन्पुराणश्रवणं नृपः । गदाधरं पूजयंश्च उपोष्यैका दशीद्वयम् । रुक्माङ्गदो ययौ मोक्षमन्ये चैकादशीव्रतम् ॥ १,१२५.
श्रीगरुडमहापुराणम् १२६ ब्रह्मोवाच । येनार्चनेन वै लोको जगाम परमां गतिम् । तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ॥ १,१२६.