नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः 13.
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर 13.
नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् 13.
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते 13.
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित 13.
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते 13.
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम 13.
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज 13.
दानवं रक्तबीजं च अन्याँश्च सुरकण्टकान् 13.
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् 14.
तच्छृणुष्व महेशान सर्वपापविनाशनम् 14.
वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि 14.
देहधर्म्मविहीनश्च क्षराक्षरविवर्जितः 14.
तद्धर्म्मरहितः स्रष्टा नामगोत्रविवर्जितः 14.
मनोधर्म्मविहीनश्च विज्ञानं ज्ञानमेव च 14.
बुद्धिधर्म्मविहीनश्च सर्वः सर्वगतो मनः 14.
प्राणप्राणो महाशान्तो भयेन परिवर्जितः 14.
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः 14.
तुरीयः परमो धाता दृग्रूपो गुणवर्जितः 14.
एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम् 14.
इति ध्यानं समाख्यातं तव शङ्कर सुव्रत 14.
संसारसागराद्धोरान्मुच्यते किं जपन्प्रभो 15.
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् 15.
यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! 15.
ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः 15.
बलिबन्धनकृद्वेधा वरेण्यो वेदवित्किविः 15.
वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः 15.
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः 15.
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः 15.
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः 15.