कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरहम् । म्रियेयद्यन्तराले तु व्रतभङ्गो न मे भवेत् ॥ १,१२२.
हरिं यजोत्त्रिषवणस्नायी गन्धादिभिर्व्रती । गात्राभ्यङ्गं गन्धलेपं देवतायतने त्यजेत् ॥ १,१२२.
द्वादश्यामथ संपूज्य प्रदद्याद्द्विजभोजनम् । ततश्च पारणं कुर्याद्धरेर्मासोपवासकृत् ॥ १,१२२.
दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा । दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥ १,१२२.
श्रीगरुडमहापुराणम् १२३ ब्रह्मोवाच । व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् । एकभक्तेन नक्तेन मासं वायाचितेन वा ॥ १,१२३.
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः । सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत् ॥ १,१२३.
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम् ॥ १,१२३.
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् । स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम् ॥ १,१२३.
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः । स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत् ॥ १,१२३.
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् । नैवेद्यं परमान्नं तु जपेदष्टोत्तरं शतम् ॥ १,१२३.
ओं नमो वासुदेवाय घृतव्रीहितिलादिकम् । अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥ १,१२३.
प्रथमेऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितीयक । बिल्वपत्रैर्जानुदेशं नाभिं गन्धेन चापरे ॥ १,१२३.
स्कन्धा बिल्वजवाभिश्च पञ्चमेऽह्नि शिरोऽर्चयेत् । मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात् ॥ १,१२३.
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् । नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक् ॥ १,१२३.
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः । अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम् ॥ १,१२३.
एकादशी द्वादशी च निशान्ते च त्रयोदशी । नित्यमेकादशी यत्र तत्र सन्निहितो हरिः ॥ १,१२३.
दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः । द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत् ॥ १,१२३.
चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् । पौर्णमास्याममावास्यां प्रतिपन्मिश्रितां मुने ॥ १,१२३.
द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् । चतुर्थ्या सङ्गतां नित्यं चतुर्थीञ्चानया युताम् । पञ्चमीं षष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम् ॥ १,१२३.
श्रीगरुडमहापुराणम् १२४ ब्रह्मोवाच । शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम् । यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥ १,१२४.
ईश्वरौवाच । माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी । तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ १,१२४.
कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः । उपोषितैः पूजितः सन्नरकात्तरयत्तथा ॥ १,१२४.
निषादश्चर्बुदे राजा पापी सुन्दरसेनकः । स कुक्रुरैः समायुक्तो मृगान्हन्तुं वनं गतः ॥ १,१२४.
मृगादि कमसंप्राप्य क्षुत्पिपासार्दितो गिरौ । रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः ॥ १,१२४.
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः । पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः ॥ १,१२४.
तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके । शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥ १,१२४.
जानुभ्यामवनीं गत्वा लिङ्गं स्प्टष्ट्वा गृहीतवान् । एवं स्नानं स्पर्शनं च पूजनं जागरोऽभवत् ॥ १,१२४.
प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च । काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ १,१२४.
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च । कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥ १,१२४.
एवमज्ञानतः पुण्यञ्ज्ञानात्पुण्यमथाक्षयम् । त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती ॥ १,१२४.