गीतीमयं तन्तकाष्ठं फाल्गुने गोमतीं यजेत् । कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः ॥ १,१२०.
विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः । दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥ १,१२०.
वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः । ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः । लवङ्गाशो भवेदेव आषाढे माधवीं यजेत् ॥ १,१२०.
तिलाशो बिल्वपत्रैश्च क्षीरान्नवटकप्रदः । औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम् ॥ १,१२०.
दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेत् । पद्मैर्यजेद्भाद्रपदे शृङ्गदाशो गृडादिदः ॥ १,१२०.
राजपुत्रीं चाश्वयुजे जपापुष्पैश्च जीरकम् । प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत् ॥ १,१२०.
जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत् । घृतोदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत् ॥ १,१२०.
उमामहेश्वरं पूज्य प्रदद्याच्च गुडादिकम् । वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः । गीतवाद्यैर्ददत्प्रतर्गवाद्यं सर्वमान्पुयात् ॥ १,१२०.
श्रीगरुडमहापुराणम् १२१ ब्रह्मोवाच । चातुर्मास्यव्रतान्यूचे एकादश्यां समाचरेत् । आषाढ्यां पौर्णमास्यां वा सर्वेणहरिमर्च्यच ॥ १,१२१.
इदं व्रतं मया देव गृहीतं पुरतस्तव । निर्विघ्नं सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ॥ १,१२१.
गृहीतेऽस्मिन्व्रते देव यद्यपूर्णे म्रियाम्यहम् । तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥ १,१२१.
एवमभ्यर्च्य गृह्णीयाद्व्रतार्चनजपादिकम् । सर्वाघं च क्षयं याति चिकीर्षेद्यो हरेर्व्रतम् ॥ १,१२१.
स्नात्वायोभ्यच्य गृह्णीयाद्व्रतार्चनजपादिकम् । स्नात्वा यच्चतुरो मासानेकभक्तेन पूजयेत् । विष्णुं स याति विष्णोर्व लोकं मलविवर्जितम् ॥ १,१२१.
मद्यमांससुरात्यगी वेदविद्धरिपूजनात् । तैलवर्जि विष्णुलोकं विष्णुभाक्कृच्छ्रपादकृत् ॥ १,१२१.
एकरात्रोपवासाच्च देवो वैमानिको भवेत् । श्वेतद्वीपं त्रिरात्रात्तु व्रजेत्षष्ठान्नकृन्नरः ॥ १,१२१.
चान्द्रायणाद्धरेर्धाम लभेन्मुक्तिमयाचिताम् । प्राजापत्यं विष्णुलोकं पराकव्रतकृद्धरिम् ॥ १,१२१.
सक्तुयावकभिक्षाशी पयोदधिघृताशनः । गोमूत्रयावकाहारः पञ्चगव्यकृताशनः । शाकमलफलाद्याशी रसवर्जो च विष्णुभाक् ॥ १,१२१.
श्रीगरुडमहापुराणम् १२२ ब्रह्मोवाच । व्रतं मासोपवासाख्यं सर्वोत्कृष्टं वदामिते । वानप्रस्थो यतिर्नारी कुर्यान्मासोपवासकम् ॥ १,१२२.
आश्विनस्य सिते पक्षे एकादश्यामुपोषितः । व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ १,१२२.
अद्यप्रभृत्यहं विष्णो यावदुत्थानकं तव । अर्चयेत्वामनश्रंस्तु दिनानि त्रिंशदेव तु ॥ १,१२२.
कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरहम् । म्रियेयद्यन्तराले तु व्रतभङ्गो न मे भवेत् ॥ १,१२२.
हरिं यजोत्त्रिषवणस्नायी गन्धादिभिर्व्रती । गात्राभ्यङ्गं गन्धलेपं देवतायतने त्यजेत् ॥ १,१२२.
द्वादश्यामथ संपूज्य प्रदद्याद्द्विजभोजनम् । ततश्च पारणं कुर्याद्धरेर्मासोपवासकृत् ॥ १,१२२.
दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा । दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥ १,१२२.
श्रीगरुडमहापुराणम् १२३ ब्रह्मोवाच । व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् । एकभक्तेन नक्तेन मासं वायाचितेन वा ॥ १,१२३.
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः । सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत् ॥ १,१२३.
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम् ॥ १,१२३.
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् । स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम् ॥ १,१२३.
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः । स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत् ॥ १,१२३.
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् । नैवेद्यं परमान्नं तु जपेदष्टोत्तरं शतम् ॥ १,१२३.