यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् । उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १,११५.
अनायके न वस्तव्यं न चैव बहुनायके । स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १,११५.
पिता रक्षति कौमारे भत्ता रक्षति यौवने । पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १,११५.
त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् । एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १,११५.
अनर्थित्वान्मनुष्याणां भिया परिजनस्य च । अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १,११५.
अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः । अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १,११५.
अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १,११५.
कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च । परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १,११५.
सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः । सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १,११५.
अम्भसः परिमाणे उन्नतं कमलं भवेत् । स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १,११५.
स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ । स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥ १,११५.
ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः । भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥ १,११५.
स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः । स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ १,११५.
आचारः कुलमाख्यति देशमाख्याति भाषितम् । सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १,११५.
वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् । वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥ १,११५.
दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः । हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥ १,११५.
मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १,११५.
कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च । शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ १,११५.
जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः । कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥ १,११५.
माता शत्रुः पिता वैरी बाला येन न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १,११५.
विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १,११५.
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते । अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १,११५.
शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च । कथयामास वैपूर्वं तत्र शुश्राव शङ्करः । शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १,११५.
श्रीगरुडमहापुराणम् ११६ ब्रह्मोवाच । व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् । सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः ॥ १,११६.
एकभक्तेन नक्तेन उपवासफलादिना । ददाति धनधान्यादि पुत्रराज्यजयादिकम् ॥ १,११६.
वैश्वानरः प्रतिपदि कुबेरः पूजितोऽर्थदः । उपोष्य ब्रह्मा प्रतिपद्यर्चितः श्रीस्तथाश्विनी ॥ १,११६.
द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः । तृतीयायां त्रिदेवाश्च गौरीविघ्नेशशङ्कराः ॥ १,११६.
चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः । कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करोऽर्थदः ॥ १,११६.
दुर्गाष्टम्यां नवम्यां च मातरोऽथ दिशोऽर्थदाः । दशम्यां च यमश्चन्द्र एकादश्यामृषीन्यजेत् ॥ १,११६.
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः । चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽर्थदाः ॥ १,११६.