अबलस्य बलं राजा बालस्य रुदितं बलम् । बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १,११५.
यथायथा हि पुरुषः शास्त्रं समधिगच्छति । तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १,११५.
यथायथा हि पुरुषः कल्याणे कुरुते मतिम् । तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १,११५.
लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः । तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १,११५.
तावद्भयस्य भेतव्यं यावद्भयमनागतम् । उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १,११५.
ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १,११५.
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १,११५.
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १,११५.
दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति । प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १,११५.
स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् । तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १,११५.
तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम् । तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥ १,११५.
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥ १,११५.
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् । शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥ १,११५.
तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा । तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥ १,११५.
सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः । तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १,११५.
तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् । तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥ १,११५.
नदीनामग्निहोत्राणां भारतस्य कलस्य च । मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥ १,११५.
लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् । षैशुन्यं जनवार्तान्तं वित्तं दुः खत्रयान्तकम् ॥ १,११५.
राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम् । आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥ १,११५.
सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १,११५.
यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् । उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १,११५.
अनायके न वस्तव्यं न चैव बहुनायके । स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १,११५.
पिता रक्षति कौमारे भत्ता रक्षति यौवने । पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १,११५.
त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् । एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १,११५.
अनर्थित्वान्मनुष्याणां भिया परिजनस्य च । अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १,११५.
अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः । अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १,११५.
अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १,११५.
कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च । परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १,११५.
सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः । सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १,११५.
अम्भसः परिमाणे उन्नतं कमलं भवेत् । स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १,११५.