कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च । एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १,११५.
अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः । पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १,११५.
आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १,११५.
पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे । पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १,११५.
अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः । पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १,११५.
अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् । अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १,११५.
शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी । व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १,११५.
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् । किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १,११५.
अहोरात्रमयो लोके जरारूपेण संचरेत् । मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १,११५.
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् । सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १,११५.
अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य । उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १,११५.
शौर्ये तपसि दाने च यस्य न प्रथितं यशः । विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ १,११५.
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः । तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.
किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन । सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.
यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये । किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १,११५.
स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता । ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥ १,११५.
सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः । असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १,११५.
अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम् । वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥ १,११५.
वाचा विहितसार्थेन लोको न च सुखायते । जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥ १,११५.
अबलस्य बलं राजा बालस्य रुदितं बलम् । बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १,११५.
यथायथा हि पुरुषः शास्त्रं समधिगच्छति । तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १,११५.
यथायथा हि पुरुषः कल्याणे कुरुते मतिम् । तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १,११५.
लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः । तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १,११५.
तावद्भयस्य भेतव्यं यावद्भयमनागतम् । उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १,११५.
ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १,११५.
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १,११५.
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १,११५.
दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति । प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १,११५.
स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् । तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १,११५.