श्रीगरुडमहापुराणम् ११५ सूत उवाच । कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् । कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥ १,११५.
धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः । मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥ १,११५.
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् । परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥ १,११५.
कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः । सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ १,११५.
परान्नं च परस्वं च परशय्याः परस्त्रियः । परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥ १,११५.
आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् । आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥ १,११५.
स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति । गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥ १,११५.
आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् । ततः संक्रमते पापं घटाद्धट इवोदकम् ॥ १,११५.
लालने बहवो दोषास्ताडने बहवो गुणाः । तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ १,११५.
अध्वा जरा देहवतां पर्वतानां जलं जरा । असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥ १,११५.
अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.
मानो हि मूलमर्थस्य माने सति धनेन किम् । प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ १,११५.
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.
वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च । धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥ १,११५.
नाभिषेको न संस्कारः सिंहस्य क्रियते वने । नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १,११५.
वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी । वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥ १,११५.
दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा । परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥ १,११५.
कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा । दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ १,११५.
चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः । नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ १,११५.
वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च । इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥ १,११५.
कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च । एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १,११५.
अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः । पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १,११५.
आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १,११५.
पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे । पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १,११५.
अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः । पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १,११५.
अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् । अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १,११५.
शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी । व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १,११५.
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् । किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १,११५.
अहोरात्रमयो लोके जरारूपेण संचरेत् । मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १,११५.
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् । सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १,११५.