स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने । भोगास्वादेषु विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ १,११४.
न विश्वसेदविश्वस्तं विश्वस्तं विश्वस्तं नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ १,११४.
वैरिणा सह सन्धाय विश्वस्तो यदि तिष्ठति । स वृक्षाग्रे प्रसुप्तो हि पतितः प्रतिबुध्यते ॥ १,११४.
नात्यन्तं मृदुना भाव्यं नात्यन्तं कूरकर्मणा । मृदुनैव मृदुं हन्ति दारुणेनैव दारुणम् ॥ १,११४.
नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा । सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥ १,११४.
नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः । शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १,११४.
अप्रार्थितानि दुः खानि यथैवायान्ति यान्ति च । मार्जार इव लुम्पेत तथा प्रार्थयितार नरः ॥ १,११४.
पूर्वं पश्चाच्चरन्त्यार्ये सदैव बहुसम्पदः । विपरीतमनार्ये च यथेच्छसि तथा चर ॥ १,११४.
षट्कर्णो भिद्यते मन्त्रश्चतुः कर्णश्चधार्यते । द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्त न बुध्यते ॥ १,११४.
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी । कोर्ऽथ पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ १,११४.
एकेनापि सुपुत्रेण विद्यायुक्तेन धीमता । कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ॥ १,११४.
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा ॥ १,११४.
एको हि गुणवान्पुत्रो निर्गुणेन शतेन किम् । चन्द्रो हन्ति तमांस्येको न च ज्योतिः सहस्रकम् ॥ १,११४.
लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ १,११४.
जायमानो हरेद्दारान् वर्धमानो हरेद्धनम् । म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥ १,११४.
केचिन्मृगमुखा व्याघ्राः केचिद्व्याघ्रमुखा मृगाः । तत्स्वरूपपहिज्ञाने ह्यविश्वासः पदेपदे ॥ १,११४.
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ १,११४.
एतदेवानुमन्येत भोगा हि क्षणभङ्गिनः । स्निग्धेषु च विदग्धस्य मतयो वै ह्यनाकुलाः ॥ १,११४.
ज्येष्ठः पितृसमो भ्राता मृते पितरि शौनक । सर्वेषां स पिता हि स्यात्सर्वेषामनुपालकः ॥ १,११४.
कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते । समापभोगजीवेषु यथैवं तनयेषु च ॥ १,११४.
बहूनामल्पसाराणां समवायो हि दारुणः । तृणैरावेष्टिता रज्जुस्तया नागोऽपि बध्यते ॥ १,११४.
अपहृत्य परस्वं हि यस्तु दानं प्रयच्छति । स दाता नरकं याति यस्यार्थास्तस्य तत्फलम् ॥ १,११४.
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १,११४.
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १,११४.
नाश्रन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः । भार्याजितस्य नाश्रन्ति यस्याश्चोपपतिर्गृहे ॥ १,११४.
अकृजज्ञमनार्यञ्च दीर्धरोषमनार्जवम् । चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥ १,११४.
नोपेक्षितव्यो दुर्बद्धि शत्रुरल्पोऽप्यवज्ञया । वह्निरल्पोऽप्यसंहार्यः कुरुते भस्मसाज्जगत् ॥ १,११४.
नवे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १,११४.
पन्थान इव विप्रेन्द्र सर्वसाधारणाः श्रियः । मदीया इति मत्वा वै न हि हर्षयुतो भवेत् ॥ १,११४.
चित्तायत्तं धातुवश्यं शरीरं चित्ते नष्टे धातवो यान्ति नाशम् । तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते धातवः सम्भवन्ति ॥ १,११४.