ततस्त्रिविधः करकायन्यासः । ततो हृदिस्थयोगपीठपूजा । ॐ अनन्ताय नमः । ॐ धर्माय नमः । ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्य्याय नमः । ॐ अधर्म्माय नमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ अनैश्वर्याय नमः । ॐ पद्माय नमः । ॐ आदित्यमण्डलाय नमः । ॐ चन्द्रमण्डलाय नमः । ॐ वह्निमण्डलाय नमः । ॐ विमलायै नमः । ॐ उत्कर्षिण्यै नमः । ॐ ज्ञानायै नमः । ॐ क्रियायै नमः । ॐ योगायै नमः । ॐ प्रह्व्यै नमः । ॐ सत्यायै नमः । ॐ ईशानायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ संगोपांगाय हरेरासनाय नमः ।। ततः कर्णिकायाम्-अं वासुदेवाय नमः । आं हृदयाय नमः । ईं शिरसे नमः । ऊं शिखायै नमः । ऐं कवचाय नमः । औं नेत्रत्रयाय नमः । अः फट् अस्त्राय नमः । आं सङ्कर्षणाय नमः । अं प्रद्युम्नाय नमः । अः अनिरुद्धाय नमः । ॐ अः नारायणाय नमः । ॐ तत्सद्बह्मणे नमः । ॐ हुं विष्णवे नमः । क्षौं नरसिंहाय भूर्वराह्य कं वैनतेयाय जं खं वं सुदर्शनाय खं चं फं षं गदायै वं लं मं क्षं पांचजन्याय घं ढं भं हं श्रियै गं डं वं शं पुष्ट्यै धं वं वनमालायै दं शं श्रीवत्साय छं डं यं कौस्तुभाय शं शांर्गाय इं इषुधिभ्यां चं चर्मणे खं खड्गाय इन्द्राय सुराय पर्तये अग्नये तेजोधिपतयेयमायधर्माधिपतयेक्षंनैर्ऋतायरक्षोधिपतये वरुणाय जलाधिपतये यों वायवे प्राणाधिपतये धां धनदाय धनाधिपतये हां ईशानाय विद्याधिपतये ॐ वज्राय शक्त्यै ॐ दण्डाय खङ्गाय ॐ पाशाय ध्वजाय गदायै त्रिशूलाय लं अनन्ताय पातालाधिपतये खं ब्रह्मणे सर्वलोकाधिपतये ॐ नमो भगवते वासुदेवाय नमः ।। ॐ ॐ नमः । ॐ नं नमः । ॐ मों नमः । ॐ ॐ भं नमः । ॐ गं नमः । ॐ वं नमः । ॐ तें नमः । ॐ वां नमः । ॐ सुं नमः । ॐ दें नमः । ॐ वां नमः । ॐ यं नमः । ॐ ॐ नमः । ॐ नं नमः । ॐ मों नमः । ॐ नां नमः । ॐ रां नमः । ॐ णां नमः । ॐ यं नमः । ॐ नमो भगवते वांसुंदेवायं ॐ नमो नारायणाय नमः । ॐ पुरुषोत्तमाय नमः ।। 12.
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन 12.
होमकर्मणि चैतेषां स्वाहान्तमुपकल्पयेत् 12.
अर्घं दत्त्वा जितं तेन प्रणामं च पुनः पुनः 12.
देवदेवं स्वबीजेन अंगादिभिरथाच्युतम् 12.
भ्रामयित्वानलं कुंडे पूजयेच्च शुभैः फलैः 12.
वासुदेवाख्यतत्त्वेन हुत्वा चाष्टोत्तरं शतम् 12.
त्रयं त्रयं तथांगानामेकैकान्दिक्पतींस्तथा 12.
वागतीते परे तत्त्वे आत्मानं च लयं नयेत् 12.
नित्यमेवंविधं होमं नैमित्तं द्विगुणं भवेत् 12.
गच्छन्तु देवताः सर्वाः स्वस्थानस्थितिहेतवे 12.
चतुर्भुजो वासुदेवः षष्ठः प्रद्युम्न एव च 12.
अनिरुद्धो द्वादशात्मा अथ ऊर्द्धमनन्तकः 12.
चक्रांकितैः पूजितः स्यान्द्रृहे रक्षेत्सदानवैः 12.
द्वारकाचक्रपूजेयं गृहे रक्षाकरी शुभा ।। 12.
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पंजरं शुभम् 13.
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः 13.
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः 13.
प्रतीच्यां रक्ष मां विष्णो ! त्वामहं शरणं गतः 13.
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः 13.
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः 13.
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर 13.
नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् 13.
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते 13.
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित 13.
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते 13.
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम 13.
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज 13.
दानवं रक्तबीजं च अन्याँश्च सुरकण्टकान् 13.
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् 14.