पातालतलवा सिन्य उच्चप्राकारसंस्थिताः । यदि नो चिकुरोद्भेदाल्लभ्यन्ते कैः स्त्रियो न हि ॥ १,११४.
समधर्मा हि मर्मज्ञस्तीक्ष्णः स्वजनकण्टकः । न तथा बाधते शत्रुः कृतवैरो बहिः स्थितः ॥ १,११४.
स पण्डितो यो ह्यनुञ्जयेद्वै मिष्टेन बालं विनियेन शिष्टम् । अर्थेन नारीं तपसा हि देवान्सर्वांश्च लोकांश्च सुसंग्रहेण ॥ १,११४.
छलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावनम् । सुखेन विद्यां पुरुषेण नारीं वाञ्छन्ति वै ये न च पण्डितास्ते ॥ १,११४.
फलार्थो फलिनं वृक्षं यश्छिन्द्याद्दुर्मतिर्नरः । निष्फलं तस्य वै कार्यां महादोषमवाप्नुयात् ॥ १,११४.
सधनो हि तपस्वी च दूरतो वै कृतश्रमः । मद्यप स्त्री सतीत्येवं विप्र न श्रद्दधाम्यहम् ॥ १,११४.
न विश्वसेदविश्वस्ते मित्रस्यापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १,११४.
सर्वभूतेषु विश्वासः सर्वभूतेषु सात्त्विकः । स्वबावमात्मना गूहेदेतत्साधोर्हि लक्षणम् ॥ १,११४.
यस्मिन्कस्मिन्कृते कार्ये कर्तारमनुवर्तते । सर्वथा वर्तमानोऽपि धैर्यबुद्धिन्तु कारयेत् ॥ १,११४.
वृद्धाः स्त्रियो नवं मद्यं शुष्कं मांसं त्रिमूलकम् । रात्रौ दधि दिवा स्वप्नं विद्वान्षट्परिवर्जयेत् ॥ १,११४.
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् । विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् ॥ १,११४.
प्रियं गानमकुण्ठस्य नीचस्योच्चासनं प्रियम् । प्रियं दानं दरिद्रस्य भूनश्चतरुणी प्रिया ॥ १,११४.
अत्यम्बुपानं कठिनाशनञ्च धातुक्षयोवेगविधारणञ्च । दिवाशयो जागरणञ्च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥ १,११४.
बालातपश्चाप्यतिमैथुनञ्च श्मशानधूमः करतापनञ्च । रजस्वलावत्क्रनिरीक्षणञ्च सुदीर्घमायुर्ननु कर्षयेच्च ॥ १,११४.
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ १,११४.
सद्यः पक्रघृतं द्राक्षा बाला स्त्री क्षीरभोजनम् । उष्णोदकं तरुच्छाया सद्यः प्राणहराणि षट् ॥ १,११४.
कूपादकं वटच्छाया नारीणाञ्च पयोधरः । शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥ १,११४.
त्रयो बलकराः सद्यो बालाभ्यङ्गसुभोजनम् । त्रयो बलहराः सद्यो ह्यध्वा वे मैथुनं ज्वरः ॥ १,११४.
शुष्कं मांसं पयो नित्यं भार्यामित्रैः सहैव तु । न भाक्तव्यं नृपैः सार्धं वियोगं कुरुते क्षणात् ॥ १,११४.
कुचेलिन दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् । सूर्योदये ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥ १,११४.
नित्यं छेदस्तृणानं धरणिविलखनं पादयोश्चापमार्ष्टिः दन्तानामप्यशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वे सध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत्केशवस्यापि लक्ष्मीम् ॥ १,११४.
शिरः सुधौतं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ १,११४.
यस्य कस्य तु पुष्पस्य पाणाडरस्य विशेषतः । शिरसा धार्यमाणस्य ह्यलक्ष्मीः प्रतिहन्यते ॥ १,११४.
दीपस्य पश्चिमा छाया छाया शय्यासनस्य च । रजकस्य तु यत्तीर्थलक्ष्मीस्तत्र तिष्ठति ॥ १,११४.
बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि । आयुष्कामो न सेवेत तथा संमार्जनीरजः ॥ १,११४.
गजाश्वरथधान्यानां गवाञ्चैव रजः शुभम् । अशुभं च विजानीयात्खरोष्ट्रजाविकेषु च ॥ १,११४.
गवां रजो धान्यरजः पुत्रस्याङ्गभवं रजः । एतद्रजो महाशस्तं महापातकनाशनम् ॥ १,११४.
अजारजः खररजो यत्तु संमार्जनीरजः । एतद्रजो महापापं महाकिल्बिषकारकम् ॥ १,११४.
शूर्पवातो नखाग्राम्बु स्नानवस्त्रमृजोदकम् । केशाम्बु मार्जनीरेणुर्हन्ति पुण्यं पुरा कृतम् ॥ १,११४.
विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिनोस्तथा । अन्तरेण न गन्तव्यं हयस्य वृषभस्य च ॥ १,११४.