नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥ १,११३.
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति । प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥ १,११३.
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति । आचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १,११३.
शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः । भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥ १,११३.
तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः । तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ १,११३.
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति । यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥ १,११३.
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति । सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥ १,११३.
यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम् । तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥ १,११३.
नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥ १,११३.
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १,११३.
यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम् । स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥ १,११३.
शरीरमेवायतनं दुः खस्य च सुखस्य च । जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥ १,११३.
सर्वं परवशं दुः खं सर्व मात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥ १,११३.
सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम् । शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥ १,११३.
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः । वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥ १,११३.
श्रीगरुडमहापुराणम् ११४ सूत उवाच । न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १,११४.
शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम् । केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १,११४.
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १,११४.
न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १,११४.
यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत् । द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥ १,११४.
मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो वसेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १,११४.
विपरीतरतिः कामः स्वायतेषु न विद्यते । यथोपायो वधो दण्डस्तथैव ह्यनु वर्तते ॥ १,११४.
अपि कल्पानिलस्यैव तुरगस्य महोदधेः । शक्यते प्रसरो बोद्धुं न ह्यरक्तस्ये चतसः ॥ १,११४.
क्षणो नास्ति रहो नास्ति न स्ति प्रार्थयिता जनः । तेन शौनक नारीणां सतीत्वमुपजायते ॥ १,११४.
एक वै सेवते नित्यमन्यश्चेतपि रोचते । पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ १,११४.
जननी यानि कुरुते रहस्यं मदनातुरा । सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः ॥ १,११४.
पराधीना निद्रा परदृदयकृत्यानुसरणं सदा हेला हास्यं नियतमपि शोकेन रहितम् । पणे न्यस्तः कायो विटजनखुरैर्दारितगलो बहूत्कण्ठवृतिर्जगति गणिक्राया बहुमतः ॥ १,११४.
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च । नित्यं परोपसेव्यानि सद्यः प्राणहराणि षट् ॥ १,११४.
किं चित्रं यदि वेद (शब्द) शास्त्रकुशलो विप्रो भवेत्पण्डितः किं चित्रं यदि दण्डनीतिकुशलो राजा भवेद्धार्मिकः । किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्रचित् ॥ १,११४.
नात्मच्छिद्रं परे दद्याद्विद्याच्छिद्रं परस्य च । गूहेत्कूर्म इवाङ्गानि परभावञ्च लक्षयेत् ॥ १,११४.