यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः । सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥ १,११३.
मृत्तिकानां सहस्रेण चोदकानां शतेन हि । न शुध्यति दुराचारो भावोपहतचेतनः ॥ १,११३.
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १,११३.
न प्रहृष्यति संमानैर्नावमानैः प्रकुप्यति । न क्रुद्धः परुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥ १,११३.
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च । काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥ १,११३.
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च । अलभ्यं लभ्यते मर्त्यैस्तत्र का परिवेदना ॥ १,११३.
अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः । यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ १,११३.
एकवृक्षे सदा रात्रौ नानापक्षिसमागमः । प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥ १,११३.
एकसार्थप्रयाताना सर्वेषान्तत्र गामिनाम् । यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥ १,११३.
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक । अव्यक्तनिधनान्येनव का तत्र परिवेदना ॥ १,११३.
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥ १,११३.
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति । प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥ १,११३.
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति । आचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १,११३.
शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः । भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥ १,११३.
तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः । तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ १,११३.
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति । यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥ १,११३.
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति । सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥ १,११३.
यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम् । तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥ १,११३.
नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥ १,११३.
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १,११३.
यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम् । स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥ १,११३.
शरीरमेवायतनं दुः खस्य च सुखस्य च । जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥ १,११३.
सर्वं परवशं दुः खं सर्व मात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥ १,११३.
सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम् । शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥ १,११३.
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः । वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥ १,११३.
श्रीगरुडमहापुराणम् ११४ सूत उवाच । न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १,११४.
शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम् । केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १,११४.
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १,११४.
न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १,११४.
यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत् । द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥ १,११४.