वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ १,११३.
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥ १,११३.
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम् । वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ १,११३.
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः । पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥ १,११३.
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः । नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १,११३.
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः । ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥ १,११३.
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥ १,११३.
दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये । दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १,११३.
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः । कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥ १,११३.
येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम् । तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥ १,११३.
आत्मना विहितं दुः खमात्मना विहितं सखम् । गर्भशय्यामुपादाय भुङ्क्ते वै पौर्वदैहिकम् ॥ १,११३.
न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे । न मातृमूर्ध्नि प्रधृतस्तथाङ्के त्यक्तुं क्षमः कर्म कृतं नरो हि ॥ १,११३.
दुगस्त्रिकूटः परिखा समुद्रो रक्षांसि योधाः परमा च वृत्तिः । शास्त्रञ्च वै तूशनसा प्रदिष्टं स रावणः कालवशाद्विनष्टः ॥ १,११३.
यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि । यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १,११३.
गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले । धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥ १,११३.
पुराधीता च या विद्या पुरा दत्तञ्च यद्धनम् । पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥ १,११३.
कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे । वसिष्ठकृतलग्नापि जानकी दुः खभाजनम् ॥ १,११३.
स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः । घनकेशी यदा सीता त्रयस्ते दुः खभाजनम् ॥ १,११३.
न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा । स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥ १,११३.
कर्मजन्यशरीरेषु रोगाः शरीरमानसाः । शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ १,११३.
अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ऽथमीहते । स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ १,११३.
बालो युवा च वृद्धश्च यः करोति शुभाशुभम् । तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १,११३.
अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः । स्वकर्मपातवातेन नीयते यत्र तत्फलम् ॥ १,११३.
प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः । अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति (यदस्मदीयं न तु तत्परेषाम् ॥ १,११३.
सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति । नरः शीघ्रतरादेव कर्मणः कः पलायते ॥ १,११३.
नाल्पा भवति सद्विद्या दीयमानापि वर्धते । कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥ १,११३.
येर्ऽथा धर्मेण ते सत्या येऽधर्मेण गताः श्रियः । धर्मार्थो च महांल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥ १,११३.
अन्नार्थो यानि दुः खानि करोति कृपणो जनः । तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥ १,११३.
सर्वेषामेव शौचानामन्नशौचं विशिष्यते । योऽन्नार्थैः शुचिः शौचान्न मृदा वारिणा शुचिः ॥ १,११३.
सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूते दया शौचं जलशौचञ्च पञ्चमम् ॥ १,११३.