द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम् । खलस्याहेश्च वदनमपकाराय केवलम् ॥ १,११२.
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपिसन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १,११२.
अकारणविष्कृतकोपधारिणः खलाद्भयं कस्य न नाम जायते । विषं महाहेर्विषमस्य दुर्वचः सदुः सहं सन्निपतेत्सदा मुखे ॥ १,११२.
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥ १,११२.
शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च । प्रागेव पश्चाद्विपरी तरुपा ये ते तु भृत्या न हिता भवन्ति ॥ १,११२.
निरालस्याः सुसन्तुष्टाः प्रतिबोधकाः । सुखदुः खसमा धीरा भृत्या लोकेषु दुर्लभाः ॥ १,११२.
क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः । दाम्भिकः कपटी चैव शठश्च स्पृहयान्वितः । अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ १,११२.
सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च । दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥ १,११२.
षण्मासमथ वर्षं वा सन्धिं कुर्यान्नराधिपः । पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥ १,११२.
मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः । अयशश्चार्थनाशश्च नरके चैव पातनम् ॥ १,११२.
यत्किञ्चित्कुरुते कर्म शुभं वा यादि वाशुभम् । तेन स्म वर्धते राजा सूक्ष्मतो भृत्यकार्यतः ॥ १,११२.
तस्माद्भूमीश्वरः प्राज्ञं धर्मकामार्थसाधने । नियोज येद्धिसततं गोब्राह्मणहिताय वै ॥ १,११२.
श्रीगरुडमहापुराणम् ११३ सूत उवाच । गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् । पण्डितस्य गुणाः सर्वे मूर्वे दोषाश्च केवलाः ॥ १,११३.
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्विवादं मैत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥ १,११३.
पण्डितैश्च विर्नातैश्च धर्मशैः सत्यवादिभिः । बन्ध्स्थोऽपि तिष्ठेच्च न तु राज्ये खलैः सह ॥ १,११३.
सावशेषाणि कार्याणि कुवत्रर्थे युज्यते । तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १,११३.
मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत् । वत्सापेक्षी दुहेत्क्षीरं भूमिं गाञ्चैव पार्थिपः ॥ १,११३.
यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः । तथा वित्तमु पादाय राजा कुर्वीत सञ्चयम् ॥ १,११३.
वल्मीकं मधुजालञ्च शुक्लण्क्षे तु चन्द्रमाः । राजद्रव्यञ्च भैक्ष्यञ्च स्तोकंस्तोकं प्रवर्धते ॥ १,११३.
अर्जितस्य क्षयं दृष्टा संप्रदत्तस्य सञ्चयम् । अवन्ध्यं दिवसं कुर्याद्दानध्ययनकर्मसु ॥ १,११३.
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ १,११३.
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥ १,११३.
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम् । वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ १,११३.
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः । पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥ १,११३.
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः । नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १,११३.
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः । ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥ १,११३.
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥ १,११३.
दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये । दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १,११३.
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः । कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥ १,११३.
येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम् । तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥ १,११३.