कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः । स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥ १,१११.
चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत् । मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ १,१११.
लीलां करोति यो राजा भृत्यस्वजनगर्वितः । शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥ १,१११.
हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः । विना दोषेण यो भृत्यान्राजाधमण शास्ति च । लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥ १,१११.
सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः ॥ १,१११.
उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः । षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते ॥ १,१११.
उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते । दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ १,१११.
श्रीगरुडमहापुराणम् ११२ सूत उवाच । भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्हेषु त्रिविधेष्वेव कर्मसु ॥ १,११२.
भृत्ये परिक्षणं वक्ष्ये यस्ययस्य हि यो गुणः । तमिमं संप्रवक्ष्यामि ये यथाकथितं किल ॥ १,११२.
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिर्भृतकं परीक्षयेद्वतेन शीलेन कलेन कर्मणा ॥ १,११२.
कुलशीलगुणोपेतः सत्यधर्मपरायणः । रूपवान्सुप्रसन्नश्च कोशाध्यक्षो विधीयते ॥ १,११२.
मूल्यरूपपरीक्षाकृद्भवे द्रत्नपरीक्षकः । बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ १,११२.
इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ १,११२.
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ १,११२.
बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः । क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ १,११२.
समस्तस्मृतिशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ १,११२.
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः । शुचिश्च कठिनश्चैव सूपकारः स उच्यते ॥ १,११२.
आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः । आयुः शीलगुणोपेतो वैद्य एव विधीयते ॥ १,११२.
वेदवेदाङ्गतत्त्वज्ञो जपहमपरायणः । आशीर्वादपरो नित्यमेष राजपुरोहित ॥ १,११२.
लेखकः पाठकश्चैव गणकः प्रतिरोधकः । आलस्ययुक्तश्चैद्राजा कर्म संवर्जयेत्सदा ॥ १,११२.
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम् । खलस्याहेश्च वदनमपकाराय केवलम् ॥ १,११२.
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपिसन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १,११२.
अकारणविष्कृतकोपधारिणः खलाद्भयं कस्य न नाम जायते । विषं महाहेर्विषमस्य दुर्वचः सदुः सहं सन्निपतेत्सदा मुखे ॥ १,११२.
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥ १,११२.
शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च । प्रागेव पश्चाद्विपरी तरुपा ये ते तु भृत्या न हिता भवन्ति ॥ १,११२.
निरालस्याः सुसन्तुष्टाः प्रतिबोधकाः । सुखदुः खसमा धीरा भृत्या लोकेषु दुर्लभाः ॥ १,११२.
क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः । दाम्भिकः कपटी चैव शठश्च स्पृहयान्वितः । अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ १,११२.
सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च । दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥ १,११२.
षण्मासमथ वर्षं वा सन्धिं कुर्यान्नराधिपः । पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥ १,११२.
मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः । अयशश्चार्थनाशश्च नरके चैव पातनम् ॥ १,११२.