लोकयात्रा भयं लज्जा दाक्षिण्यं दानशीलता । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ १,११०.
कालविच्छोत्रियो राजा नदी साधुश्च पञ्चमः । एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १,११०.
नैकत्र परिनिष्ठास्ति ज्ञानस्य किल शौनक । सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचित् ॥ १,११०.
न सर्ववित्कश्चिदिहास्ति लोके नात्यन्तमूर्खो भुवि चापि कश्चित् । ज्ञानेन नीचोत्तममध्यमेन योऽयं विजानाति स तेन विद्वान् ॥ १,११०.
श्रीगरुडमहापुराणम् १११ सूत उवाच । पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् । सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत् ॥ १,१११.
राज्यं पालयते नित्यं सत्यधर्मपरायणः । निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत् ॥ १,१११.
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारण्ये न यथाङ्गारकारकः ॥ १,१११.
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते । परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत् ॥ १,१११.
नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः । एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते ॥ १,१११.
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन् । पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम् ॥ १,१११.
आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः । प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥ १,१११.
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत् । क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥ १,१११.
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम् ॥ १,१११.
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे । आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित् ॥ १,१११.
निः शङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या । मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन ॥ १,१११.
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १,१११.
एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः । यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ १,१११.
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम् । रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥ १,१११.
ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते । स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते ॥ १,१११.
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम् । किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥ १,१११.
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः ॥ १,१११.
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १,१११.
अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः । अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १,१११.
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः । इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥ १,१११.
येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः । जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा ॥ १,१११.
लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च । सहि नश्यति वै राजा इह लोके परत्र च ॥ १,१११.
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः । समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत् ॥ १,१११.
धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः । प्रविश्य वदनं राहोः किं नोदति पुनः शशी ॥ १,१११.
धिग्धिक्शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव । सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥ १,१११.
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान् । धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥ १,१११.