तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १,१०९.
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १,१०९.
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः । उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १,१०९.
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च । योगाद्भ्रष्टः सत्यधृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १,१०९.
श्रीगरुडमहापुराणम् ११० सूत उवाच । योध्रुवाणि परित्यज्य ह्यधुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥ १,११०.
वाग्यन्त्रहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तुष्टिमुत्पादयते शरीरे ह्यन्धस्य दारा इव दर्शनीयाः ॥ १,११०.
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः । विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ १,११०.
अग्निहोत्रफला वेदाः शीलवृत्तिफलं शुभम् । रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १,११०.
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । सुरूपां सुनितम्बाञ्च नाकुलीनां कदाचन ॥ १,११०.
अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः । को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥ १,११०.
हविर्दुष्टकुलद्वाह्यं बालादपि सुभाषितम् । अमेध्यात्काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि ॥ १,११०.
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ १,११०.
न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्रचित् । न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥ १,११०.
कुले नियोजयेद्भक्तं पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोज्येत् ॥ १,११०.
स्थानेष्वेव प्रयोक्ताव्या भृत्याश्चाभरणानि च । न हि चूडामणिः पादे शोभते वै कदाचन ॥ १,११०.
चूडामणिः समुद्रोऽग्निर्घण्टा चाखण्डमम्बरम् । अथवा पृथिवीपालो मूर्ध्नि पादे प्रमादतः ॥ १,११०.
कुसुमस्तबकस्येव द्वे गती तु मनस्विनः । मूर्ध्नि वा सर्वलोकानां शीर्षतः पतितो वने ॥ १,११०.
कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न च विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ १,११०.
वाजिवारणलौहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ १,११०.
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते सर्वगुणप्रमाथः । अधः खलेनापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ॥ १,११०.
न सदश्वः कशाघातं सिंहो न गजगर्जितम् । वीरो वा परनिर्दिष्टं न सहेद्भीमनिः स्वनम् ॥ १,११०.
यदि विभवविहीनः प्रच्युतो वाशु दैवान्न तु खलजनसेवां काङ्क्षयेन्नैव नीचाम् । न तृणमदनकार्ये सुक्षुधार्तोऽत्ति सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्चराणाम् ॥ १,११०.
सकृद्दुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमेव गृह्णीयाद्गर्भमश्वतरी यथा ॥ १,११०.
शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः । तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥ १,११०.
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ १,११०.
अपकारपरान्नित्यं चिन्त येन्न कदाचन । स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥ १,११०.
अनर्था ह्यर्थरूषाश्च अर्थाश्चानर्थरूपिणः । भवन्ति ते विनाशाय दैवायत्तस्य वै सदा ॥ १,११०.
कार्यकालोचितापापा मतिः सञ्जायते हि वै । सानुकूले तु दैवे शं पुंसः सर्वत्र जायते ॥ १,११०.
धनप्रयोगकार्येषुः तथा विद्या गमेषु च । आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥ १,११०.
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्रत्र संस्थितिम् ॥ १,११०.