दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः । ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ १,१०९.
जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे । मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ १,१०९.
स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १,१०९.
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥ १,१०९.
समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः । वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥ १,१०९.
ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् । हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ १,१०९.
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् । योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥ १,१०९.
नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच । तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥ १,१०९.
नदी पातयते कूलं नारी पातयते कुलम् । नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥ १,१०९.
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १,१०९.
न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम् । सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ १,१०९.
राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन । न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥ १,१०९.
स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम् । जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥ १,१०९.
मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः । वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥ १,१०९.
न दानेन न मानेन नार्जवेन न सवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥ १,१०९.
शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत् । शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥ १,१०९.
शाश्वतं देवपूजादि विप्रदानं च शाश्वतम् । शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ १,१०९.
ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः । ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥ १,१०९.
पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः । सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान् ॥ १,१०९.
ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः । ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥ १,१०९.
तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १,१०९.
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १,१०९.
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः । उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १,१०९.
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च । योगाद्भ्रष्टः सत्यधृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १,१०९.
श्रीगरुडमहापुराणम् ११० सूत उवाच । योध्रुवाणि परित्यज्य ह्यधुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥ १,११०.
वाग्यन्त्रहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तुष्टिमुत्पादयते शरीरे ह्यन्धस्य दारा इव दर्शनीयाः ॥ १,११०.
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः । विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ १,११०.
अग्निहोत्रफला वेदाः शीलवृत्तिफलं शुभम् । रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १,११०.
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । सुरूपां सुनितम्बाञ्च नाकुलीनां कदाचन ॥ १,११०.
अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः । को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥ १,११०.