श्रीगरुडमहापुराणम् १०९ सूत उवाच । आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १,१०९.
त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १,१०९.
वरं हि नरके वासो न तु दुश्चरिते गृहे । नरकात्क्षीयते पाप कुगृहान्न निवर्तते ॥ १,१०९.
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १,१०९.
त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत् । त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥ १,१०९.
अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन । रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १,१०९.
अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः । अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥ १,१०९.
आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम् । मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ १,१०९.
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसानिर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः । पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ १,१०९.
लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा । मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम् ॥ १,१०९.
सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः । इतरेः खाद्यपानेन मानदानेन पण्डिताः ॥ १,१०९.
उत्तमं प्रणिपातेन शठं भेदेन योजयेत् । नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥ १,१०९.
यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ १,१०९.
नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥ १,१०९.
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥ १,१०९.
हीनदुर्जनसंसर्ग अत्यन्तविरहादरः । स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १,१०९.
कस्य दोषः कुले नास्ति व्याधिना को पीडितः । केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १,१०९.
कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ १,१०९.
सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि । यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः । विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥ १,१०९.
यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः । न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १,१०९.
धनस्य यस्य राजतो भयं न चास्ति चौरतः । मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ १,१०९.
यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः । कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ १,१०९.
सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः । आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥ १,१०९.
नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः । दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥ १,१०९.
शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः । अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ १,१०९.
सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते । तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥ १,१०९.
न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने । कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १,१०९.
अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥ १,१०९.
विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता । व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥ १,१०९.
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् । पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ १,१०९.