सर्वांश्चतुष्पदान्हत्वा अहोरात्रो षितो जपेत् । शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा । क्षत्त्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशमाहरे (वहे) त् ॥ १,१०७.
श्रीगरुडमहापुराणम् १०८ सूत उवाच । नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम् । राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥ १,१०८.
सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः । नासद्भिरिहलोकाय परलोकाय वा हितम् ॥ १,१०८.
वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम् । विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ॥ १,१०८.
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति ॥ १,१०८.
ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् । शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ १,१०८.
कालेन रिपुणासन्धिः काले मित्रेण विग्रहः । कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ १,१०८.
कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ १,१०८.
कालेषु हरते वीर्यं काले गर्भे च वर्तते । कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत् ॥ १,१०८.
कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते । स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च ॥ १,१०८.
नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः । सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम् ॥ १,१०८.
राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम् । अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥ १,१०८.
उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम् । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ १,१०८.
परीवादं परार्थं च परिहासं परस्त्रियम् । परवेश्मनि वासं च न कुर्वीत कदाचन ॥ १,१०८.
परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १,१०८.
स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ १,१०८.
स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति । सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥ १,१०८.
स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥ १,१०८.
सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ १,१०८.
नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी । अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥ १,१०८.
सततं धर्मबहुला सततं च पतिप्रिया । सततं प्रियवक्री च सततं त्वृतुकामिनी ॥ १,१०८.
एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी । यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः ॥ १,१०८.
यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया । उत्तरोत्तरवादा स्या सा जरा न जरा जरा ॥ १,१०८.
यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी । कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥ १,१०८.
यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी । अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ १,१०८.
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासोमृत्युरेव न संशयः ॥ १,१०८.
त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम् ॥ १,१०८.
व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा । क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त ॥ १,१०८.
सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)?हैमे । उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥ १,१०८.
भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च । देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥ १,१०८.