राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम् । त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते ॥ १,१०७.
कर्षकाः क्षत्त्रविट्छूद्राः खलेऽदत्त्वा तु चौरकः । दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके ॥ १,१०७.
क्षत्त्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः । याति विप्रो दशाहात्तु क्षत्त्रो द्वादशकाद्दिनात् ॥ १,१०७.
पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति । एकपिण्डास्तु दायादाः पृथग्द्वारनिकेतनाः ॥ १,१०७.
जन्मना च विपत्तौ च भवेत्तेषां च सूतकम् । चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे ॥ १,१०७.
षष्ठे चतुर हाच्छुद्धिः सप्तमे च दिनत्रयम् । देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते ॥ १,१०७.
अजातदन्ता ये बाला ये च गर्भाद्विनिः सृताः । न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ १,१०७.
यदि गर्भो विपद्यत स्त्रवते वापि योषितः । यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ १,१०७.
आनामकरणात्सद्य आचूडान्तादहर्निशम् । आव्रतात्तु त्रिरात्रेण तदूर्ध्वन्दशभिर्दिनैः ॥ १,१०७.
आचतुर्थाद्भवेत्स्त्रवः पातः पञ्चमषष्ठयोः । ब्रह्मचर्या दग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात् ॥ १,१०७.
शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः । अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः ॥ १,१०७.
दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः । सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः ॥ १,१०७.
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके । पूर्वसंकल्पितादन्यवर्जनं च विधीयते ॥ १,१०७.
मृतेन शुध्यते सूतिः मृतवज्जातकं जनौ । गोग्रहादौ विपन्नानामेकरात्रं तु सूतकम् ॥ १,१०७.
अनाथप्रेतवहनात्प्राणायामेन शुध्यति । प्रेतशूद्रस्य वहनान्त्रिरात्रमशुचिर्भवेत् ॥ १,१०७.
आत्मघातिविषोद्वन्धकृमिदष्टे न संस्कृतिः । गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति ॥ १,१०७.
अदुष्टापतितं भार्या यौवने या परित्यजेत् । सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः ॥ १,१०७.
बालहत्या त्वगमनादृतौ च स्त्री तु सूकरि । अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः ॥ १,१०७.
औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः । परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च ॥ १,१०७.
अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणञ्चरेत् । कुब्जवामनषण्डेषु गद्गदेषु जडेषु च ॥ १,१०७.
जात्यन्धबधिरे मूके न दोषः परिवेदने । नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ ॥ १,१०७.
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते । भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि ॥ १,१०७.
श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः । दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतोऽग्निमान् ॥ १,१०७.
क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत् । प्रवासे तु मृते भूयः कृत्वा [https://vedastudy.yolasite.com/kusha1.php कुशमयं] दहेत् ॥ १,१०७.
कृष्णाजिने समास्तीर्य षट्शतानि पलाशजान् । शमीं शिश्ने विनिःक्षिप्य अरणिं वृषणे क्षिपेत् ॥ १,१०७.
कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत् । पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत् ॥ १,१०७.
उरे निःक्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे । श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थालीं च चक्षुषोः ॥ १,१०७.
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत् । अग्निहोत्रोपकरणाद्ब्रह्मलोकगतिर्भवेत् ॥ १,१०७.
असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत् । हंससारसक्रौञ्चानां चक्रवाकं च कुक्रुटम् ॥ १,१०७.
मयरमेषघाती च अहोरात्रेण शुध्यति । पक्षिणः सकलान्हत्वा अहोरात्रेण शुध्यति ॥ १,१०७.