ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् 11.
ध्यात्वा वेदादिना पश्चात्सूर्य्यसोमानलात्मनाम् 11.
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः 11.
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् 11.
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः 11.
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः 11.
सुदर्शनं सहस्त्रारं दक्षिणे द्वारि विन्यसेत् 11.
द्वार्य्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् 11.
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् 11.
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् 11.
सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः 11.
वन्दनी हृदयासक्तात्सार्द्धं दक्षिणतोन्नता 11.
सव्यस्य तस्य चांगुष्ठो यः स उद्ध्र्वः प्रकीर्त्तितः 11.
कनिष्ठादिप्रयोगेण अष्टौ मुद्रा यथाक्रमम् 11.
अंगुष्ठेन कनिष्ठान्तं नामयित्वांगुलित्रयम् 11.
सव्यहस्तं तथोत्तानं कृत्वोर्द्धं भ्रामयेच्छनैः 11.
मुष्टिद्वयमथोत्तानमृज्वेकैकेन मोचयेत् 11.
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः 11.
स्वरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च 11.
प्रणवस्तत्सदित्येतद् हुं क्षौं भूरिति मन्त्रकाः 11.
सितारुणहरिद्राभा नीलश्यामल्लोहिताः 11.
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् 11.
घँ ढँ भँ ङँ भवेच्छ्रीश्च गं जं वं शं च पुष्टिका 11.
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च 11.
गरुडोऽम्बुजसंकाशो गदा चैवासिताकृतिः 11.
पूर्णचन्द्रनिभः शंखः कौस्तुभस्त्वरुणद्युतिः 11.
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः 11.
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ।। 11.
पूजानुक्रमसिद्ध्यर्थं पूजानुक्रम उच्यते 12.
यं रं वं लमिति कायशुद्धिः 12.