पाषण्डपतितानां तु न कुर्युरुदकक्रियाः । नब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥ १,१०६.
सुराप्यस्त्वात्मघातिन्यो नाशौचोदकभाजनाः । ततो न रोदितव्यं हि त्वनित्या जीवसं स्थितिः ॥ १,१०६.
क्रिया कार्या यथाशक्ति ततो गच्छेद्गृहान्प्रति । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १,१०६.
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १,१०६.
प्रवेशनादिकं कर्म प्रेतसंस्पर्शनादपि । ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ १,१०६.
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्पृथक् । पिण्डयज्ञकृता देयं प्रेतायान्नं दिनत्रयम् ॥ १,१०६.
जलमेकाहमाकाशे स्थाप्यं क्षीरं तु मृन्मये । वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः ॥ १,१०६.
आदन्तजन्मनः सद्यः आचूडं नैशिकी स्मृता । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ १,१०६.
त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १,१०६.
अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति । दश द्वादश वर्णानां तथा पञ्चदशैव च ॥ १,१०६.
त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम् । अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ॥ १,१०६.
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च । अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १,१०६.
निवासराजनि तथा तदहः शुद्धिकार(ण)म् । हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ॥ १,१०६.
विषाद्यैश्च हतानां च नाशौचं पृथिवीपतेः । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ १,१०६.
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥ १,१०६.
कालोऽग्निः कर्ममृद्वायुर्मनो ज्ञानं तपो जपः (लम्) । पश्चात्ताषो निराहारः सर्वेषां शुद्धिहेतवः ॥ १,१०६.
अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत् । क्षात्त्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ॥ १,१०६.
फलसोमक्षौमवीरुद्दधि क्षीरं घृतं जलम् । तिलोदनरसक्षारमधु लाक्षा शृतं हविः ॥ १,१०६.
वस्त्रोपलासवं पुष्पं शाकमृच्चर्मपादुकम् । एणत्वचं च कौशेयं लवणं मासमेव च ॥ १,१०६.
पिण्याकमूलगन्धांश्च वैश्यवृत्तो न विक्रयेत् । धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ १,१०६.
लवणादि न विक्रीयात्तथा चापद्गतो द्विजः । हीनाद्विप्रो विगृह्णंश्च लिप्यते नार्कवद्द्विजः ॥ १,१०६.
कुर्यात्कृष्यादिकं तद्वदविक्रेया हयास्तथा । बुभुक्षितस्त्र्यं स्थित्वा दृष्ट्वा वृत्तिविवर्जितम् । राजा धर्म्यां प्रकुर्वीत वृत्तिं विप्रादिकस्य च ॥ १,१०६.
श्रीगरुडमहापुराणम् १०७ सूत उवाच । पराशरोऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम् । कल्पेकल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः ॥ १,१०७.
श्रुतिः स्मृतिः सदाचरो यः कश्चिद्वे दकर्तृकः । वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा ॥ १,१०७.
दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत् । पापकृत्यं तु तत्रैव शापं फलति वर्षतः ॥ १,१०७.
आचारात्प्राप्नुयात्सर्वं षट्कर्माणि दिनेदिने । सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम् ॥ १,१०७.
अपूर्वः सुव्रती विप्रो ह्यपूर्वा यतयस्तदा । क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत् ॥ १,१०७.
वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके । अभक्ष्यभक्षणाच्चौर्यादगम्या गमनात्पतेत् ॥ १,१०७.
कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत् । दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत् ॥ १,१०७.
निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत् । तिलाज्यं न विक्रीणित सूनायज्ञमघान्वितः ॥ १,१०७.