चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम् 105.
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति 105.
पयसा वापि मासेन पराकेणापि वा पुनः 105.
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् 105.
षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश 105.
मार्जारगोधानकुलपशुमण्डूकघातनात् 105.
गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम् 105.
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् 105.
गर्दभं पशुमालभ्य नैर्ऋतं च विशुध्यति 105.
कृच्छ्रत्रयं गुरुः कुर्य्यान्म्रियेत् प्रहितो यदि 105.
रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत् 105.
महापापोपपापाभ्यां योभिशस्तो मृषा परम् 105.
अनियुक्तो भ्रातृभार्य्यां गच्छंश्चान्द्रायणं चरेत् 105.
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती 105.
त्रिः कृच्छ्रमाचरेद्व्रात्ययाजकोऽपि चरन्नपि 105.
प्राणायामत्रयं कुर्य्यात्खरयानोष्ट्रयानगः 105.
गुरुंत्वं कृत्य हुंकृत्य विप्रं निर्जित्य वाद तः 105.
विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने 105.
प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः 105.
एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत् 105.
असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् 105.
अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम् 105.
जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः 105.
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः 105.
प्राणायामशतं कुर्य्यात्सर्वपापापनुक्त्ये 105.
कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः 105.
रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः 105.
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः 105.
ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता 105.
स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः 105.