पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि 105.
आचार्य्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः 105.
गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया 105.
भृत्याचाध्ययनादानं भृतकाध्यापनमन्तथा 105.
सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता 105.
पितृमातृसुहृत्त्यागस्तडागारामविक्रयः 105.
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् 105.
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च 105.
उपपापानि चोक्तानि प्रायश्चित्तं निबोधत 105.
ब्रह्महा द्वादश समा मितभुक् शुद्धिमाप्नुयात् 105.
मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम् 105.
निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतोऽपि वा 105.
सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत् 105.
गर्भहा वा यथावर्णं तथात्रेयीनिषू (सू) दनम् 105.
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत् 105.
अग्निवर्णं घृतं वापि चीरवास जटी भवेत् 105.
रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा 105.
स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा 105.
आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः 105.
उच्छेद्य लिङ्गं वृषणं नैर्ऋत्यामुत्सृजोद्दिशि 105.
चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम् 105.
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति 105.
पयसा वापि मासेन पराकेणापि वा पुनः 105.
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् 105.
षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश 105.
मार्जारगोधानकुलपशुमण्डूकघातनात् 105.
गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम् 105.
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् 105.
गर्दभं पशुमालभ्य नैर्ऋतं च विशुध्यति 105.
कृच्छ्रत्रयं गुरुः कुर्य्यान्म्रियेत् प्रहितो यदि 105.