स्वाध्यायवान्ध्यानशीलः सर्वभूतहितेरतः (तिः) 102.
कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना 102.
चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात्फलादिना 102.
आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ॥ 102.
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्वयधिकशततमोऽध्यायः
भिक्षोर्धर्मं प्रवक्ष्यामितिनिबोधत सत्तमाः 103.
प्राजापत्यन्तदन्तेऽपि अग्निमारोप्य चात्मनि 103.
सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत् 103.
रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः 103.
सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात् 103.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्र्युत्तरशततमोऽध्यायः
नरकात्पताकोद्भूतात्क्षयात्पापस्य कर्मणः 104.
स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः 104.
ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशोर्भवेत् 104.
धान्यहार्य्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः 104.
ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः 104.
गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत् 104.
मांसं गृध्रः पटं श्वित्री चीरीलवणहारकः 104.
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः 104.
जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥ 104.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमोऽध्यायः
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् 105.
तस्माद्यत्नेन कर्त्तव्यं प्रायश्चित्तं विशुद्धये 105.
लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः 105.
नरकान्यान्ति पापा वै महारौरवरौरवान् 105.
हंसाभं लोहितोदं च सञ्जीवननदीपथम् 105.
अविचीं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः 105.
गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे 105.
रजस्वलामुखास्वादः सुरापानसमानि तु 105.
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च 105.